३.१६१.१वैशंपायन उवाच
३.१६१.२तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम्
रतिः प्रमोदश्च बभूव तेषा;माकाङ्क्षतां दर्शनमर्जुनस्य
३.१६१.३तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां;स्तेजस्विनः सत्यधृतिप्रधानान्
संप्रीयमाणा बहवोऽभिजग्मु;र्गन्धर्वसंघाश्च महर्षयश्च
३.१६१.४तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम्
मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम्
३.१६१.५मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य
शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः
३.१६१.६साक्षात्कुबेरेण कृताश्च तस्मि;न्नगोत्तमे संवृतकूलरोधसः
कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन्
३.१६१.७क्रीडाप्रदेशांश्च समृद्धरूपा;न्सुचित्रमाल्यावृतजातशोभान्
मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः
३.१६१.८अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः संततमभ्रमालिभिः
तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः
३.१६१.९स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात्
विभक्तभावो न बभूव कश्चि;दहर्निशानां पुरुषप्रवीर
३.१६१.१०यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः
तस्योदयं चास्तमयं च वीरा;स्तत्र स्थितास्ते ददृशुर्नृसिंहाः
३.१६१.११रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः
समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च
३.१६१.१२स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च
सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः
३.१६१.१३इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनंजयेन
इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः
३.१६१.१४दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम्
बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः
३.१६१.१५यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः
तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम्
३.१६१.१६भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी
यत्काम्यकात्प्रव्रजितः स जिष्णु;स्तदैव ते शोकहता बभूवुः
३.१६१.१७तथा तु तं चिन्तयतां सिताश्व;मस्त्रार्थिनं वासवमभ्युपेतम्
मासोऽथ कृच्छ्रेण तदा व्यतीत;स्तस्मिन्नगे भारत भारतानाम्
३.१६१.१८ततः कदाचिद्धरिसंप्रयुक्तं; महेन्द्रवाहं सहसोपयातम्
विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव
३.१६१.१९स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसंगृहीतः
बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा
३.१६१.२०तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत्
धनंजयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम
३.१६१.२१स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात्
धौम्यस्य पादावभिवाद्य पूर्व;मजातशत्रोस्तदनन्तरं च
३.१६१.२२वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च
समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः
३.१६१.२३बभूव तेषां परमः प्रहर्ष;स्तेनाप्रमेयेण समागतानाम्
स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन्
३.१६१.२४यमास्थितः सप्त जघान पूगा;न्दितेः सुतानां नमुचेर्निहन्ता
तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः
३.१६१.२५ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम्
सर्वं यथावच्च दिवौकसस्ता;न्पप्रच्छुरेनं कुरुराजपुत्राः
३.१६१.२६तानप्यसौ मातलिरभ्यनन्द;त्पितेव पुत्राननुशिष्य चैनान्
ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य
३.१६१.२७गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी
शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति
दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे
३.१६१.२८ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम्
विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव
३.१६१.२९एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात्
तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः
३.१६१.३०संक्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम्
माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः