३. वनपर्व
३.१६२.१वैशंपायन उवाच

३.१६२.२एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम्

३.१६२.३रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः

३.१६२.४तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा
विमानैः सूर्यसंकाशैर्देवराजमरिंदमम्

३.१६२.५ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्
मेघनादिनमारुह्य श्रिया परमया ज्वलन्

३.१६२.६पार्थानभ्याजगामाशु देवराजः पुरंदरः
आगत्य च सहस्राक्षो रथादवरुरोह वै

३.१६२.७तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत्

३.१६२.८पूजयामास चैवाथ विधिवद्भूरिदक्षिणः
यथार्हममितात्मानं विधिदृष्टेन कर्मणा

३.१६२.९धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः

३.१६२.१०आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः
धनंजयमभिप्रेक्ष्य विनीतं स्थितमन्तिके

३.१६२.११जटिलं देवराजस्य तपोयुक्तमकल्मषम्
हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात्

३.१६२.१२तं तथादीनमनसं राजानं हर्षसंप्लुतम्
उवाच वचनं धीमान्देवराजः पुरंदरः

३.१६२.१३त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्

३.१६२.१४अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन्
कृतप्रियश्चास्मि धनंजयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः

३.१६२.१५एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः

३.१६२.१६धनेश्वरगृहस्थानां पाण्डवानां समागमम्
शक्रेण य इमं विद्वानधीयीत समाहितः

३.१६२.१७संवत्सरं ब्रह्मचारी नियतः संशितव्रतः
स जीवेत निराबाधः सुसुखी शरदां शतम्