३.१६५.१अर्जुन उवाच
३.१६५.२कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्
३.१६५.३न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा
३.१६५.४अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति
३.१६५.५अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह
३.१६५.६अस्त्राणि समवाप्तानि त्वया दश च पञ्च च
पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः
३.१६५.७प्रयोगमुपसंहारमावृत्तिं च धनंजय
प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः
३.१६५.८तव गुर्वर्थकालोऽयमुपपन्नः परंतप
प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम्
३.१६५.९ततोऽहमब्रुवं राजन्देवराजमिदं वचः
विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत्
३.१६५.१०ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा
नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन
३.१६५.११निवातकवचा नाम दानवा मम शत्रवः
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत
३.१६५.१२तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति
३.१६५.१३ततो मातलिसंयुक्तं मयूरसमरोमभिः
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्
३.१६५.१४बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्
३.१६५.१५अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्
३.१६५.१६ततः प्रायामहं तेन स्यन्दनेन विराजता
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा
३.१६५.१७ततो देवाः सर्व एव तेन घोषेण बोधितः
मन्वाना देवराजं मां समाजग्मुर्विशां पते
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन
३.१६५.१८तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे
निवातकवचानां तु प्रस्थितं मां वधैषिणम्
निबोधत महाभागाः शिवं चाशास्त मेऽनघाः
३.१६५.१९तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम्
रथेनानेन मघवा जितवाञ्शम्बरं युधि
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि
३.१६५.२०बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
रथेनानेन दैत्यानां जितवान्मघवान्युधि
३.१६५.२१त्वमप्येतेन कौन्तेय निवातकवचान्रणे
विजेता युधि विक्रम्य पुरेव मघवान्वशी
३.१६५.२२अयं च शङ्खप्रवरो येन जेतासि दानवान्
अनेन विजिता लोकाः शक्रेणापि महात्मना
३.१६५.२३प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम्
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः
३.१६५.२४स शङ्खी कवची बाणी प्रगृहीतशरासनः
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया