३. वनपर्व
३.१६४.१अर्जुन उवाच

३.१६४.२ततस्तामवसं प्रीतो रजनीं तत्र भारत
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः

३.१६४.३व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम्
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा

३.१६४.४तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्
भगवन्तं महादेवं समेतोऽस्मीति भारत

३.१६४.५स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः
दृष्टस्त्वया महादेवो यथा नान्येन केनचित्

३.१६४.६समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति

३.१६४.७एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः

३.१६४.८अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्

३.१६४.९दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च
शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः

३.१६४.१०वादित्राणि च दिव्यानि सुघोषाणि समन्ततः
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः

३.१६४.११गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः

३.१६४.१२मरुतां च गणास्तत्र देवयानैरुपागमन्
महेन्द्रानुचरा ये च देवसद्मनिवासिनः

३.१६४.१३ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलंकृतैः
शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः

३.१६४.१४एतस्मिन्नेव काले तु कुबेरो नरवाहनः
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः

३.१६४.१५दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्
वरुणं देवराजं च यथास्थानमवस्थितम्

३.१६४.१६ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः
सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान्

३.१६४.१७सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम्
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः

३.१६४.१८ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्
प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो

३.१६४.१९गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत
अथ देवा ययुः सर्वे यथागतमरिंदम

३.१६४.२०मघवानपि देवेशो रथमारुह्य सुप्रभम्
उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा

३.१६४.२१पुरैवागमनादस्माद्वेदाहं त्वां धनंजय
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ

३.१६४.२२त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्
तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव

३.१६४.२३भूयश्चैव तु तप्तव्यं तपः परमदारुणम्
उवाच भगवान्सर्वं तपसश्चोपपादनम्

३.१६४.२४मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति
विदितस्त्वं हि देवानामृषीणां च महात्मनाम्

३.१६४.२५ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम
आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर

३.१६४.२६इन्द्र उवाच

३.१६४.२७क्रूरं कर्मास्त्रवित्तात करिष्यसि परंतप
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि

३.१६४.२८अर्जुन उवाच

३.१६४.२९ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम्

३.१६४.३०तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप
लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव

३.१६४.३१इन्द्र उवाच

३.१६४.३२परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय
ममात्मजस्य वचनं सूपपन्नमिदं तव

३.१६४.३३शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत
वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात्

३.१६४.३४साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्
वैष्णवानि च सर्वाणि नैरृतानि तथैव च
मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह

३.१६४.३५अर्जुन उवाच

३.१६४.३६एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम्
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप

३.१६४.३७लोकपालेषु यातेषु मामुवाचाथ मातलिः
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते

३.१६४.३८संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम्
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज

३.१६४.३९इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम्
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्

३.१६४.४०चोदयामास स हयान्मनोमारुतरंहसः
मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः

३.१६४.४१अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः
तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत्

३.१६४.४२अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम्
यदास्थितो रथं दिव्यं पदा न चलितो भवान्

३.१६४.४३देवराजोऽपि हि मया नित्यमत्रोपलक्षितः
विचलन्प्रथमोत्पाते हयानां भरतर्षभ

३.१६४.४४त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह
अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे

३.१६४.४५इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान्
दर्शयामास मे राजन्विमानानि च भारत

३.१६४.४६नन्दनादीनि देवानां वनानि बहुलान्युत
दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः

३.१६४.४७ततः शक्रस्य भवनमपश्यममरावतीम्
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम्

३.१६४.४८न तां भासयते सूर्यो न शीतोष्णे न च क्लमः
रजः पङ्को न च तमस्तत्रास्ति न जरा नृप

३.१६४.४९न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते
दिवौकसां महाराज न च ग्लानिररिंदम

३.१६४.५०न क्रोधलोभौ तत्रास्तामशुभं च विशां पते
नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि

३.१६४.५१नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः

३.१६४.५२शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता

३.१६४.५३मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः
विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः

३.१६४.५४ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान्
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम्

३.१६४.५५ते मां वीर्येण यशसा तेजसा च बलेन च
अस्त्रैश्चाप्यन्वजानन्त संग्रामविजयेन च

३.१६४.५६प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम्
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः

३.१६४.५७ददावर्धासनं प्रीतः शक्रो मे ददतां वरः
बहुमानाच्च गात्राणि पस्पर्श मम वासवः

३.१६४.५८तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण
अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत

३.१६४.५९विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा
स च गान्धर्वमखिलं ग्राहयामास मां नृप

३.१६४.६०ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः
सुखं शक्रस्य भवने सर्वकामसमन्वितः

३.१६४.६१शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप

३.१६४.६२तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः

३.१६४.६३ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि