३. वनपर्व
३.१६७.१अर्जुन उवाच

३.१६७.२ततो निवातकवचाः सर्वे वेगेन भारत
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे

३.१६७.३आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः
आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्

३.१६७.४ततोऽपरे महावीर्याः शूलपट्टिशपाणयः
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि

३.१६७.५तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम्
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि

३.१६७.६अन्ये मामभ्यधावन्त निवातकवचा युधि
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः

३.१६७.७तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः

३.१६७.८ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः
रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः
सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान्

३.१६७.९शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे
तदा मातलिना यत्ता व्यचरन्नल्पका इव

३.१६७.१०तेषां चरणपातेन रथनेमिस्वनेन च
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः

३.१६७.११गतासवस्तथा चान्ये प्रगृहीतशरासनाः
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः

३.१६७.१२ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः
निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः

३.१६७.१३ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम्
अश्वांस्तथा वेगवतो यदयत्नादधारयत्

३.१६७.१४ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे
सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः

३.१६७.१५एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः

३.१६७.१६वध्यमानास्ततस्ते तु हयैस्तेन रथेन च
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे

३.१६७.१७स्पर्धमाना इवास्माभिर्निवातकवचा रणे
शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन्

३.१६७.१८ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः
व्यधमं सायकैराशु शतशोऽथ सहस्रशः

३.१६७.१९ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः
अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः

३.१६७.२०ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम्
दयितं देवराजस्य माधवं नाम भारत

३.१६७.२१ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम्

३.१६७.२२छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः

३.१६७.२३गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः
निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत्

३.१६७.२४तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः

३.१६७.२५वध्यमानास्ततस्ते तु निवातकवचाः पुनः
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन्

३.१६७.२६शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः

३.१६७.२७तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम्
प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम्

३.१६७.२८इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः
मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः

३.१६७.२९शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः
ततो निवातकवचा मामयुध्यन्त मायया