३. वनपर्व
३.१६८.१अर्जुन उवाच

३.१६८.२ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः
नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत्

३.१६८.३तदहं वज्रसंकाशैः शरैरिन्द्रास्त्रचोदितैः
अचूर्णयं वेगवद्भिः शतधैकैकमाहवे

३.१६८.४चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत
तत्राश्मचूर्णमपतत्पावकप्रकरा इव

३.१६८.५ततोऽश्मवर्षे निहते जलवर्षं महत्तरम्
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके

३.१६८.६नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा

३.१६८.७धाराणां च निपातेन वायोर्विस्फूर्जितेन च
गर्जितेन च दैत्यानां न प्राज्ञायत किंचन

३.१६८.८धारा दिवि च संबद्धा वसुधायां च सर्वशः
व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि

३.१६८.९तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्
दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम्

३.१६८.१०हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते
मुमुचुर्दानवा मायामग्निं वायुं च मानद

३.१६८.११ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः
शैलेन च महास्त्रेण वायोर्वेगमधारयम्

३.१६८.१२तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः
प्राकुर्वन्विविधा माया यौगपद्येन भारत

३.१६८.१३ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम्
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम्

३.१६८.१४सा तु मायामयी वृष्टिः पीडयामास मां युधि
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः

३.१६८.१५तमसा संवृते लोके घोरेण परुषेण च
तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः

३.१६८.१६हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि
असकृच्चाह मां भीतः क्वासीति भरतर्षभ

३.१६८.१७मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि
स च मां विगतज्ञानः संत्रस्त इदमब्रवीत्

३.१६८.१८सुराणामसुराणां च संग्रामः सुमहानभूत्
अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ

३.१६८.१९शम्बरस्य वधे चापि संग्रामः सुमहानभूत्
सारथ्यं देवराजस्य तत्रापि कृतवानहम्

३.१६८.२०तथैव वृत्रस्य वधे संगृहीता हया मया
वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम्

३.१६८.२१एते मया महाघोराः संग्रामाः पर्युपासिताः
न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव

३.१६८.२२पितामहेन संहारः प्रजानां विहितो ध्रुवम्
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्

३.१६८.२३तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना
मोहयिष्यन्दानवानामहं मायामयं बलम्

३.१६८.२४अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम्
अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च

३.१६८.२५अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम्
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव

३.१६८.२६एवमुक्त्वाहमसृजमस्त्रमायां नराधिप
मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम्

३.१६८.२७पीड्यमानासु मायासु तासु तास्वसुरेश्वराः
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः

३.१६८.२८पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः
व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति

३.१६८.२९सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः
व्यचरत्स्यन्दनाग्र्येण संग्रामे लोमहर्षणे

३.१६८.३०ततः पर्यपतन्नुग्रा निवातकवचा मयि
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम्

३.१६८.३१वर्तमाने तथा युद्धे निवातकवचान्तके
नापश्यं सहसा सर्वान्दानवान्माययावृतान्