३. वनपर्व
३.१७८.१युधिष्ठिर उवाच

३.१७८.२भवानेतादृशो लोके वेदवेदाङ्गपारगः
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा

३.१७८.३सर्प उवाच

३.१७८.४पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम

३.१७८.५युधिष्ठिर उवाच

३.१७८.६दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्

३.१७८.७सर्प उवाच

३.१७८.८दाने रतत्वं सत्यं च अहिंसा प्रियमेव च
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम्

३.१७८.९कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते
सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते

३.१७८.१०एवमेव महेष्वास प्रियवाक्यान्महीपते
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते

३.१७८.११एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम्
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम्

३.१७८.१२युधिष्ठिर उवाच

३.१७८.१३कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम्
अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे

३.१७८.१४सर्प उवाच

३.१७८.१५तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः
मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा

३.१७८.१६तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते

३.१७८.१७विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते

३.१७८.१८कामक्रोधसमायुक्तो हिंसालोभसमन्वितः
मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते

३.१७८.१९तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते
गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते

३.१७८.२०सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान्
नित्ये महति चात्मानमवस्थापयते नृप

३.१७८.२१जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान्
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः

३.१७८.२२युधिष्ठिर उवाच

३.१७८.२३शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः
तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम्

३.१७८.२४किं न गृह्णासि विषयान्युगपत्त्वं महामते
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम

३.१७८.२५सर्प उवाच

३.१७८.२६यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम्
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि

३.१७८.२७ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ
तस्य भोगाधिकरणे करणानि निबोध मे

३.१७८.२८मनसा तात पर्येति क्रमशो विषयानिमान्
विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः

३.१७८.२९अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते
तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते

३.१७८.३०स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः
द्रव्येषु सृजते बुद्धिं विविधेषु परावराम्

३.१७८.३१बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः

३.१७८.३२युधिष्ठिर उवाच

३.१७८.३३मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्
एतदध्यात्मविदुषां परं कार्यं विधीयते

३.१७८.३४सर्प उवाच

३.१७८.३५बुद्धिरात्मानुगा तात उत्पातेन विधीयते
तदाश्रिता हि संज्ञैषा विधिस्तस्यैषणे भवेत्

३.१७८.३६बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत्
बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि

३.१७८.३७एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम्
त्वमप्यत्राभिसंबुद्धः कथं वा मन्यते भवान्

३.१७८.३८युधिष्ठिर उवाच

३.१७८.३९अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव
विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि

३.१७८.४०सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम्
एवमद्भुतकर्माणमिति मे संशयो महान्

३.१७८.४१सर्प उवाच

३.१७८.४२सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम

३.१७८.४३सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर
पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम्

३.१७८.४४कृतं कार्यं महाराज त्वया मम परंतप
क्षीणः शापः सुकृच्छ्रो मे त्वया संभाष्य साधुना

३.१७८.४५अहं हि दिवि दिव्येन विमानेन चरन्पुरा
अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम्

३.१७८.४६ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः
करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः

३.१७८.४७चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते
तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम

३.१७८.४८ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम
स मामपनयो राजन्भ्रंशयामास वै श्रियः

३.१७८.४९तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः
अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा

३.१७८.५०ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम्

३.१७८.५१अयाचं तमहं विप्रं शापस्यान्तो भवेदिति
अज्ञानात्संप्रवृत्तस्य भगवन्क्षन्तुमर्हसि

३.१७८.५२ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति

३.१७८.५३अभिमानस्य घोरस्य बलस्य च नराधिप
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि

३.१७८.५४ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम्
ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम्

३.१७८.५५सत्यं दमस्तपो योगमहिंसा दाननित्यता
साधकानि सदा पुंसां न जातिर्न कुलं नृप

३.१७८.५६अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः

३.१७८.५७वैशंपायन उवाच

३.१७८.५८इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह

३.१७८.५९युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन संगतः
धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात्

३.१७८.६०ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः

३.१७८.६१तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी

३.१७८.६२ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम्

३.१७८.६३पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम्
हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः