३. वनपर्व
३.१७७.१वैशंपायन उवाच

३.१७७.२युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम्
दयितं भ्रातरं वीरमिदं वचनमब्रवीत्

३.१७७.३कुन्तीमातः कथमिमामापदं त्वमवाप्तवान्
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः

३.१७७.४स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम्
कथयामास तत्सर्वं ग्रहणादि विचेष्टितम्

३.१७७.५युधिष्ठिर उवाच

३.१७७.६देवो वा यदि वा दैत्य उरगो वा भवान्यदि
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः

३.१७७.७किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजंगम
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्

३.१७७.८सर्प उवाच

३.१७७.९नहुषो नाम राजाहमासं पूर्वस्तवानघ
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप

३.१७७.१०क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च

३.१७७.११तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा
सहस्रं हि द्विजातीनामुवाह शिबिकां मम

३.१७७.१२ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान्
इमामगस्त्येन दशामानीतः पृथिवीपते

३.१७७.१३न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः

३.१७७.१४षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव
नाहमेनं विमोक्ष्यामि न चान्यमभिकामये

३.१७७.१५प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्

३.१७७.१६युधिष्ठिर उवाच

३.१७७.१७ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजंगम

३.१७७.१८वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम्
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः

३.१७७.१९सर्प उवाच

३.१७७.२०ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे

३.१७७.२१युधिष्ठिर उवाच

३.१७७.२२सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः

३.१७७.२३वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत्
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम्

३.१७७.२४सर्प उवाच

३.१७७.२५चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह
शूद्रेष्वपि च सत्यं च दानमक्रोध एव च
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर

३.१७७.२६वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये

३.१७७.२७युधिष्ठिर उवाच

३.१७७.२८शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः

३.१७७.२९यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः
यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत्

३.१७७.३०यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह
ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि

३.१७७.३१एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता

३.१७७.३२एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित्
एषा मम मतिः सर्प यथा वा मन्यते भवान्

३.१७७.३३सर्प उवाच

३.१७७.३४यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः
व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते

३.१७७.३५युधिष्ठिर उवाच

३.१७७.३६जातिरत्र महासर्प मनुष्यत्वे महामते
संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः

३.१७७.३७सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम्

३.१७७.३८इदमार्षं प्रमाणं च ये यजामह इत्यपि
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः

३.१७७.३९प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते

३.१७७.४०वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते
अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत्

३.१७७.४१कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते
संकरस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः

३.१७७.४२यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम

३.१७७.४३सर्प उवाच

३.१७७.४४श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम्