३. वनपर्व
३.१८.१वासुदेव उवाच

३.१८.२एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम्

३.१८.३उच्छ्रित्य मकरं केतुं व्यात्ताननमलंकृतम्
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान्

३.१८.४विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान्

३.१८.५स विद्युच्चलितं चापं विहरन्वै तलात्तलम्
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः

३.१८.६नास्य विक्षिपतश्चापं संदधानस्य चासकृत्
अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे

३.१८.७मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य
सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम्

३.१८.८जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी
वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः

३.१८.९ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः
शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप

३.१८.१०अभियानं तु वीरेण प्रद्युम्नेन महाहवे
नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह

३.१८.११स रोषमदमत्तो वै कामगादवरुह्य च
प्रद्युम्नं योधयामास शाल्वः परपुरंजयः

३.१८.१२तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः
समेता ददृशुर्लोका बलिवासवयोरिव

३.१८.१३तस्य मायामयो वीर रथो हेमपरिष्कृतः
सध्वजः सपताकश्च सानुकर्षः सतूणवान्

३.१८.१४स तं रथवरं श्रीमान्समारुह्य किल प्रभो
मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः

३.१८.१५ततो बाणमयं वर्षं व्यसृजत्तरसा रणे
प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव

३.१८.१६स तैरभिहतः संख्ये नामर्षयत सौभराट्
शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम

३.१८.१७स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे

३.१८.१८तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः
बिभेद हृदयं पत्री स पपात मुमोह च

३.१८.१९तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि
संप्राद्रवन्दानवेन्द्रा दारयन्तो वसुंधराम्

३.१८.२०हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते
नष्टसंज्ञे निपतिते तदा सौभपतौ नृप

३.१८.२१तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम्
मुमोच बाणं तरसा प्रद्युम्नाय महाबलः

३.१८.२२तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा

३.१८.२३तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम्
ननाद सिंहनादं वै नादेनापूरयन्महीम्

३.१८.२४ततो मोहं समापन्ने तनये मम भारत
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान्

३.१८.२५स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे