३.१९.१वासुदेव उवाच
३.१९.२शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे
वृष्णयो भग्नसंकल्पा विव्यथुः पृतनागताः
३.१९.३हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा
प्रद्युम्ने पतिते राजन्परे च मुदिताभवन्
३.१९.४तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः
३.१९.५नातिदूरापयाते तु रथे रथवरप्रणुत्
धनुर्गृहीत्वा यन्तारं लब्धसंज्ञोऽब्रवीदिदम्
३.१९.६सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते
३.१९.७कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम्
३.१९.८सूत उवाच
३.१९.९जानार्दने न मे मोहो नापि मे भयमाविशत्
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन
३.१९.१०सोऽपयामि शनैर्वीर बलवानेष पापकृत्
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी
३.१९.११आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम्
रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम्
३.१९.१२एकश्चासि महाबाहो बहवश्चापि दानवाः
नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम्
३.१९.१३वासुदेव उवाच
३.१९.१४एवं ब्रुवति सूते तु तदा मकरकेतुमान्
उवाच सूतं कौरव्य निवर्तय रथं पुनः
३.१९.१५दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन
व्यपयानं रणात्सौते जीवतो मम कर्हिचित्
३.१९.१६न स वृष्णिकुले जातो यो वै त्यजति संगरम्
यो वा निपतितं हन्ति तवास्मीति च वादिनम्
३.१९.१७तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च
विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा
३.१९.१८त्वं च सूतकुले जातो विनीतः सूतकर्मणि
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके
३.१९.१९स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे
अपयानं पुनः सौते मैवं कार्षीः कथंचन
३.१९.२०अपयातं हतं पृष्ठे भीतं रणपलायिनम्
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः
३.१९.२१केशवस्याग्रजो वापि नीलवासा मदोत्कटः
किं वक्ष्यति महाबाहुर्बलदेवः समागतः
३.१९.२२किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः
अपयातं रणात्सौते साम्बश्च समितिंजयः
३.१९.२३चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे
३.१९.२४शूरं संभावितं सन्तं नित्यं पुरुषमानिनम्
स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति संगताः
३.१९.२५प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम्
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति
३.१९.२६धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः
३.१९.२७भारं हि मयि संन्यस्य यातो मधुनिहा हरिः
यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः
३.१९.२८कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः
शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज
३.१९.२९स च संभावयन्मां वै निवृत्तो हृदिकात्मजः
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम्
३.१९.३०उपयातं दुराधर्षं शङ्खचक्रगदाधरम्
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम्
३.१९.३१सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम्
३.१९.३२त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः
त्वयापनीतो विवशो न जीवेयं कथंचन
३.१९.३३स निवर्त रथेनाशु पुनर्दारुकनन्दन
न चैतदेवं कर्तव्यमथापत्सु कथंचन
३.१९.३४न जीवितमहं सौते बहु मन्ये कदाचन
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः
३.१९.३५कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम्
अपयातं रणं हित्वा यथा कापुरुषं तथा
३.१९.३६न युक्तं भवता त्यक्तुं संग्रामं दारुकात्मज
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम्