३.१८३.१मार्कण्डेय उवाच
३.१८३.२भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम्
३.१८३.३भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात्
संचिन्त्य स महातेजा वनमेवान्वरोचयत्
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह
३.१८३.४प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम्
३.१८३.५तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम्
३.१८३.६तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम्
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः
३.१८३.७अत्रिरुवाच
३.१८३.८कथितो मे महाभागे गौतमेन महात्मना
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः
३.१८३.९किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम्
३.१८३.१०तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम्
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम्
३.१८३.११गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम्
३.१८३.१२मार्कण्डेय उवाच
३.१८३.१३एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम्
३.१८३.१४राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित्
३.१८३.१५तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता
अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः
३.१८३.१६अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत
अयमेव विधाता च यथैवेन्द्रः प्रजापतिः
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह
३.१८३.१७गौतम उवाच
३.१८३.१८जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे
स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात्
३.१८३.१९न वेत्थ परमं धर्मं न चावैषि प्रयोजनम्
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना
३.१८३.२०मार्कण्डेय उवाच
३.१८३.२१विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ
३.१८३.२२प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि
उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ
३.१८३.२३ततः परमधर्मात्मा काश्यपः सर्वधर्मवित्
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत्
३.१८३.२४अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान्
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः
वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान्
३.१८३.२५श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम्
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै
३.१८३.२६स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः
३.१८३.२७सनत्कुमार उवाच
३.१८३.२८ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह
राजा वै प्रथमो धर्मः प्रजानां पतिरेव च
स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः
३.१८३.२९प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति
३.१८३.३०पुरायोनिर्युधाजिच्च अभिया मुदितो भवः
स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते
३.१८३.३१सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः
अधर्मादृषयो भीता बलं क्षत्रे समादधन्
३.१८३.३२आदित्यो दिवि देवेषु तमो नुदति तेजसा
तथैव नृपतिर्भूमावधर्मं नुदते भृशम्
३.१८३.३३अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्
उत्तरः सिध्यते पक्षो येन राजेति भाषितम्
३.१८३.३४मार्कण्डेय उवाच
३.१८३.३५ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः
३.१८३.३६यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः
सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च
३.१८३.३७दासीसहस्रं श्यामानां सुवस्त्राणामलंकृतम्
दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश
एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः
३.१८३.३८तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः
प्रत्याजगाम तेजस्वी गृहानेव महातपाः
३.१८३.३९प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्
तपः समभिसंधाय वनमेवान्वपद्यत