३.१८४.१मार्कण्डेय उवाच
३.१८४.२अत्रैव च सरस्वत्या गीतं परपुरंजय
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता
३.१८४.३तार्क्ष्य उवाच
३.१८४.४किं नु श्रेयः पुरुषस्येह भद्रे; कथं कुर्वन्न च्यवते स्वधर्मात्
आचक्ष्व मे चारुसर्वाङ्गि सर्वं; त्वयानुशिष्टो न च्यवेयं स्वधर्मात्
३.१८४.५कथं चाग्निं जुहुयां पूजये वा; कस्मिन्काले केन धर्मो न नश्येत्
एतत्सर्वं सुभगे प्रब्रवीहि; यथा लोकान्विरजाः संचरेयम्
३.१८४.६मार्कण्डेय उवाच
३.१८४.७एवं पृष्टा प्रीतियुक्तेन तेन; शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम्
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यमिदं बभाषे
३.१८४.८सरस्वत्युवाच
३.१८४.९यो ब्रह्म जानाति यथाप्रदेशं; स्वाध्यायनित्यः शुचिरप्रमत्तः
स वै पुरो देवपुरस्य गन्ता; सहामरैः प्राप्नुयात्प्रीतियोगम्
३.१८४.१०तत्र स्म रम्या विपुला विशोकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः
अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैरावृताः पुण्डरीकैः
३.१८४.११तासां तीरेष्वासते पुण्यकर्मा; महीयमानः पृथगप्सरोभिः
सुपुण्यगन्धाभिरलंकृताभि;र्हिरण्यवर्णाभिरतीव हृष्टः
३.१८४.१२परं लोकं गोप्रदास्त्वाप्नुवन्ति; दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति
वासो दत्त्वा चन्द्रमसः स लोकं; दत्त्वा हिरण्यममृतत्वमेति
३.१८४.१३धेनुं दत्त्वा सुव्रतां साधुदोहां; कल्याणवत्सामपलायिनीं च
यावन्ति रोमाणि भवन्ति तस्या;स्तावद्वर्षाण्यश्नुते स्वर्गलोकम्
३.१८४.१४अनड्वाहं सुव्रतं यो ददाति; हलस्य वोढारमनन्तवीर्यम्
धुरंधरं बलवन्तं युवानं; प्राप्नोति लोकान्दश धेनुदस्य
३.१८४.१५यः सप्त वर्षाणि जुहोति तार्क्ष्य; हव्यं त्वग्नौ सुव्रतः साधुशीलः
सप्तावरान्सप्त पूर्वान्पुनाति; पितामहानात्मनः कर्मभिः स्वैः
३.१८४.१६तार्क्ष्य उवाच
३.१८४.१७किमग्निहोत्रस्य व्रतं पुराण;माचक्ष्व मे पृच्छतश्चारुरूपे
त्वयानुशिष्टोऽहमिहाद्य विद्यां; यदग्निहोत्रस्य व्रतं पुराणम्
३.१८४.१८सरस्वत्युवाच
३.१८४.१९न चाशुचिर्नाप्यनिर्णिक्तपाणि;र्नाब्रह्मविज्जुहुयान्नाविपश्चित्
बुभुक्षवः शुचिकामा हि देवा; नाश्रद्दधानाद्धि हविर्जुषन्ति
३.१८४.२०नाश्रोत्रियं देवहव्ये नियुञ्ज्या;न्मोघं परा सिञ्चति तादृशो हि
अपूर्णमश्रोत्रियमाह तार्क्ष्य; न वै तादृग्जुहुयादग्निहोत्रम्
३.१८४.२१कृशानुं ये जुह्वति श्रद्दधानाः; सत्यव्रता हुतशिष्टाशिनश्च
गवां लोकं प्राप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम्
३.१८४.२२तार्क्ष्य उवाच
३.१८४.२३क्षेत्रज्ञभूतां परलोकभावे; कर्मोदये बुद्धिमतिप्रविष्टाम्
प्रज्ञां च देवीं सुभगे विमृश्य; पृच्छामि त्वां का ह्यसि चारुरूपे
३.१८४.२४सरस्वत्युवाच
३.१८४.२५अग्निहोत्रादहमभ्यागतास्मि; विप्रर्षभाणां संशयच्छेदनाय
त्वत्संयोगादहमेतदब्रुवं; भावे स्थिता तथ्यमर्थं यथावत्
३.१८४.२६तार्क्ष्य उवाच
३.१८४.२७न हि त्वया सदृशी काचिदस्ति; विभ्राजसे ह्यतिमात्रं यथा श्रीः
रूपं च ते दिव्यमत्यन्तकान्तं; प्रज्ञां च देवीं सुभगे बिभर्षि
३.१८४.२८सरस्वत्युवाच
३.१८४.२९श्रेष्ठानि यानि द्विपदां वरिष्ठ; यज्ञेषु विद्वन्नुपपादयन्ति
तैरेवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र
३.१८४.३०यच्चापि द्रव्यमुपयुज्यते ह; वानस्पत्यमायसं पार्थिवं वा
दिव्येन रूपेण च प्रज्ञया च; तेनैव सिद्धिरिति विद्धि विद्वन्
३.१८४.३१तार्क्ष्य उवाच
३.१८४.३२इदं श्रेयः परमं मन्यमाना; व्यायच्छन्ते मुनयः संप्रतीताः
आचक्ष्व मे तं परमं विशोकं; मोक्षं परं यं प्रविशन्ति धीराः
३.१८४.३३सरस्वत्युवाच
३.१८४.३४तं वै परं वेदविदः प्रपन्नाः; परं परेभ्यः प्रथितं पुराणम्
स्वाध्यायदानव्रतपुण्ययोगै;स्तपोधना वीतशोका विमुक्ताः
३.१८४.३५तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखो विमलो विभाति
तस्य मूलात्सरितः प्रस्रवन्ति; मधूदकप्रस्रवणा रमण्यः
३.१८४.३६शाखां शाखां महानद्यः संयान्ति सिकतासमाः
धानापूपा मांसशाकाः सदा पायसकर्दमाः
३.१८४.३७यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने