३. वनपर्व
३.१९१.१वैशंपायन उवाच

३.१९१.२मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन्
अस्ति कश्चिद्भवतश्चिरजाततर इति

३.१९१.३स तानुवाच
अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः
कीर्तिस्ते व्युच्छिन्नेति
स मामुपातिष्ठत्
अथ प्रत्यभिजानाति मां भवानिति

३.१९१.४तमहमब्रुवम्
न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम्

३.१९१.५अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः
स भवन्तं यदि जानीयात्
प्रकृष्टे चाध्वनि हिमवान्
तत्रासौ प्रतिवसतीति

३.१९१.६स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः

३.१९१.७अथैनं स राजर्षिः पर्यपृच्छत्
प्रत्यभिजानाति मां भवानिति

३.१९१.८स मुहूर्तं ध्यात्वाब्रवीदेनम्
नाभिजाने भवन्तमिति

३.१९१.९स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत्
अस्ति कश्चिद्भवतश्चिरजाततर इति

३.१९१.१०स एवमुक्तोऽब्रवीदेनम्
अस्ति खल्विन्द्रद्युम्नसरो नाम
तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति
सोऽस्मत्तश्चिरजाततरः
तं पृच्छेति

३.१९१.११तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव

३.१९१.१२सोऽस्माभिः पृष्टः
भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति

३.१९१.१३स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा
नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति

३.१९१.१४ततः सोऽस्माभिः पृष्टः
अस्ति कश्चिदन्यो भवतश्चिरजाततर इति

३.१९१.१५स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति
स मत्तश्चिरजाततर इति
स यदि कथंचिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति

३.१९१.१६ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास
अस्त्यस्माकमभिप्रेतं भवन्तं कंचिदर्थमभिप्रष्टुम्
साध्वागम्यतां तावदिति

३.१९१.१७एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे

३.१९१.१८आगतं चैनं वयमपृच्छाम
भवानिन्द्रद्युम्नं राजानमभिजानातीति

३.१९१.१९स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिरब्रवीत्
किमहमेनं न प्रत्यभिजानामि
अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः
सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम्
अत्र चाहं प्रतिवसामीति

३.१९१.२०अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत्

३.१९१.२१वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति
प्रस्तुतस्ते स्वर्गः
यथोचितं स्थानमभिपद्यस्व
कीर्तिमानसि
अव्यग्रो याहीति

३.१९१.२२दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः
यावत्स शब्दो भवति तावत्पुरुष उच्यते

३.१९१.२३अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित्
पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते

३.१९१.२४तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि
विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत्

३.१९१.२५इत्येतच्छ्रुत्वा स राजाब्रवीत्
तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति

३.१९१.२६स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः

३.१९१.२७एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः

३.१९१.२८पाण्डवाश्चोचुः प्रीताः
साधु
शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति

३.१९१.२९अथैनानब्रवीदसौ
ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति