३.१९४.१मार्कण्डेय उवाच
३.१९४.२स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः
उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत्
३.१९४.३न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति
पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः
३.१९४.४धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि
प्रियं वै सर्वमेतत्ते करिष्यति न संशयः
३.१९४.५पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः
विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि सांप्रतम्
३.१९४.६तथास्त्विति च तेनोक्तो मुनिनामिततेजसा
स तमादिश्य तनयमुत्तङ्काय महात्मने
क्रियतामिति राजर्षिर्जगाम वनमुत्तमम्
३.१९४.७युधिष्ठिर उवाच
३.१९४.८क एष भगवन्दैत्यो महावीर्यस्तपोधन
कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम्
३.१९४.९एवं महाबलो दैत्यो न श्रुतो मे तपोधन
एतदिच्छामि भगवन्याथातथ्येन वेदितुम्
सर्वमेव महाप्राज्ञ विस्तरेण तपोधन
३.१९४.१०मार्कण्डेय उवाच
३.१९४.११शृणु राजन्निदं सर्वं यथावृत्तं नराधिप
एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे
प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ
३.१९४.१२प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः
सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह
नागस्य भोगे महति शेषस्यामिततेजसः
३.१९४.१३लोककर्ता महाभाग भगवानच्युतो हरिः
नागभोगेन महता परिरभ्य महीमिमाम्
३.१९४.१४स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम्
नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः
साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे
३.१९४.१५चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः
स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः
३.१९४.१६कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ
मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम्
३.१९४.१७शयानं शयने दिव्ये नागभोगे महाद्युतिम्
बहुयोजनविस्तीर्णे बहुयोजनमायते
३.१९४.१८किरीटकौस्तुभधरं पीतकौशेयवाससम्
दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा
सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम्
३.१९४.१९विस्मयः सुमहानासीन्मधुकैटभयोस्तदा
दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम्
३.१९४.२०वित्रासयेतामथ तौ ब्रह्माणममितौजसम्
वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः
अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः
३.१९४.२१अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ
दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ
ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते
३.१९४.२२तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ
प्रत्यब्रूतां महाराज सहितौ मधुसूदनम्
३.१९४.२३आवां वरय देव त्वं वरदौ स्वः सुरोत्तम
दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन्
३.१९४.२४भगवानुवाच
३.१९४.२५प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम
युवां हि वीर्यसंपन्नौ न वामस्ति समः पुमान्
३.१९४.२६वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ
एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै
३.१९४.२७मधुकैटभावूचतुः
३.१९४.२८अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा
सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम
३.१९४.२९बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ
धर्मे तपसि दाने च शीलसत्त्वदमेषु च
३.१९४.३०उपप्लवो महानस्मानुपावर्तत केशव
उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः
३.१९४.३१आवामिच्छावहे देव कृतमेकं त्वया विभो
अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम
३.१९४.३२पुत्रत्वमभिगच्छाव तव चैव सुलोचन
वर एष वृतो देव तद्विद्धि सुरसत्तम
३.१९४.३३भगवानुवाच
३.१९४.३४बाढमेवं करिष्यामि सर्वमेतद्भविष्यति
३.१९४.३५मार्कण्डेय उवाच
३.१९४.३६विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम्
अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः
३.१९४.३७स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा
मधुकैटभयो राजञ्शिरसी मधुसूदनः
चक्रेण शितधारेण न्यकृन्तत महायशाः