३.१९६.१वैशंपायन उवाच
३.१९६.२ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम्
पप्रच्छ भरतश्रेष्ठो धर्मप्रश्नं सुदुर्वचम्
३.१९६.३श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम्
कथ्यमानं त्वया विप्र सूक्ष्मं धर्मं च तत्त्वतः
३.१९६.४प्रत्यक्षेण हि विप्रर्षे देवा दृश्यन्ति सत्तम
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च
३.१९६.५पिता माता च भगवन्गाव एव च सत्तम
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन
३.१९६.६मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे
३.१९६.७पतिव्रतानां माहात्म्यं वक्तुमर्हसि नः प्रभो
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ
पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः
३.१९६.८भगवन्दुष्करं ह्येतत्प्रतिभाति मम प्रभो
मातापितृषु शुश्रूषा स्त्रीणां भर्तृषु च द्विज
३.१९६.९स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम्
साध्वाचाराः स्त्रियो ब्रह्मन्यत्कुर्वन्ति सदादृताः
दुष्करं बत कुर्वन्ति पितरो मातरश्च वै
३.१९६.१०एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत
कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः
नार्यः कालेन संभूय किमद्भुततरं ततः
३.१९६.११संशयं परमं प्राप्य वेदनामतुलामपि
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो
पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम
३.१९६.१२ये च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम्
३.१९६.१३क्षत्रधर्मसमाचारं तथ्यं चाख्याहि मे द्विज
धर्मः सुदुर्लभो विप्र नृशंसेन दुरात्मना
३.१९६.१४एतदिच्छामि भगवन्प्रश्नं प्रश्नविदां वर
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत
३.१९६.१५मार्कण्डेय उवाच
३.१९६.१६हन्त ते सर्वमाख्यास्ये प्रश्नमेतं सुदुर्वचम्
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे
३.१९६.१७मातरं सदृशीं तात पितॄनन्ये च मन्यते
दुष्करं कुरुते माता विवर्धयति या प्रजाः
३.१९६.१८तपसा देवतेज्याभिर्वन्दनेन तितिक्षया
अभिचारैरुपायैश्च ईहन्ते पितरः सुतान्
३.१९६.१९एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम्
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति
३.१९६.२०आशंसते च पुत्रेषु पिता माता च भारत
यशः कीर्तिमथैश्वर्यं प्रजा धर्मं तथैव च
३.१९६.२१तयोराशां तु सफलां यः करोति स धर्मवित्
पिता माता च राजेन्द्र तुष्यतो यस्य नित्यदा
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः
३.१९६.२२नैव यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम्
या तु भर्तरि शुश्रूषा तया स्वर्गमुपाश्नुते
३.१९६.२३एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर
प्रतिव्रतानां नियतं धर्मं चावहितः शृणु