३. वनपर्व
३.१९७.१मार्कण्डेय उवाच

३.१९७.२कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः
तपस्वी धर्मशीलश्च कौशिको नाम भारत

३.१९७.३साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः
स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः

३.१९७.४उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि

३.१९७.५तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता

३.१९७.६अपध्याता च विप्रेण न्यपतद्वसुधातले
बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम्
कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः

३.१९७.७अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः
इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः

३.१९७.८ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ
प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः

३.१९७.९देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी

३.१९७.१०एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम्
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम

३.१९७.११सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम्
पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम्

३.१९७.१२प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा

३.१९७.१३उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी

३.१९७.१४न कर्मणा न मनसा नात्यश्नान्नापि चापिबत्
तं सर्वभावोपगता पतिशुश्रूषणे रता

३.१९७.१५साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी
भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते

३.१९७.१६देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया

३.१९७.१७सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम्
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा

३.१९७.१८व्रीडिता साभवत्साध्वी तदा भरतसत्तम
भिक्षामादाय विप्राय निर्जगाम यशस्विनी

३.१९७.१९ब्राह्मण उवाच

३.१९७.२०किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने
उपरोधं कृतवती न विसर्जितवत्यसि

३.१९७.२१मार्कण्डेय उवाच

३.१९७.२२ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा
दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत्

३.१९७.२३क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत्
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया

३.१९७.२४ब्राह्मण उवाच

३.१९७.२५ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे

३.१९७.२६इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि

३.१९७.२७स्त्र्युवाच

३.१९७.२८नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ

३.१९७.२९जानामि तेजो विप्राणां महाभाग्यं च धीमताम्
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः

३.१९७.३०तथैव दीप्ततपसां मुनीनां भावितात्मनाम्
येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति

३.१९७.३१ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान्
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः

३.१९७.३२प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम्
क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम्

३.१९७.३३अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ
पतिशुश्रूषया धर्मो यः स मे रोचते द्विज

३.१९७.३४दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम्
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम

३.१९७.३५शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम्
बलाका हि त्वया दग्धा रोषात्तद्विदितं मम

३.१९७.३६क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः

३.१९७.३७यो वदेदिह सत्यानि गुरुं संतोषयेत च
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः

३.१९७.३८जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः
कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः

३.१९७.३९यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः
सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः

३.१९७.४०योऽध्यापयेदधीयीत यजेद्वा याजयीत वा
दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः

३.१९७.४१ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः
स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः

३.१९७.४२यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत्
सत्यं तथा व्याहरतां नानृते रमते मनः

३.१९७.४३धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः

३.१९७.४४दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम्

३.१९७.४५बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम
भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः
न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः

३.१९७.४६मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम

३.१९७.४७अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित
स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः

३.१९७.४८ब्राह्मण उवाच

३.१९७.४९प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने
उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम्
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने

३.१९७.५०मार्कण्डेय उवाच

३.१९७.५१तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ
विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम