३. वनपर्व
३.२०६.१व्याध उवाच

३.२०६.२एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम
अभिप्रसादयमृषिं गिरा वाक्यविशारदम्

३.२०६.३अजानता मयाकार्यमिदमद्य कृतं मुने
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति

३.२०६.४ऋषिरुवाच

३.२०६.५नान्यथा भविता शाप एवमेतदसंशयम्
आनृशंस्यादहं किंचित्कर्तानुग्रहमद्य ते

३.२०६.६शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः

३.२०६.७तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि
शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः

३.२०६.८व्याध उवाच

३.२०६.९एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा
प्रसादश्च कृतस्तेन ममैवं द्विपदां वर

३.२०६.१०शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत

३.२०६.११एतत्ते सर्वमाख्यातं यथा मम पुराभवत्
अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम

३.२०६.१२ब्राह्मण उवाच

३.२०६.१३एवमेतानि पुरुषा दुःखानि च सुखानि च
प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि
दुष्करं हि कृतं तात जानता जातिमात्मनः

३.२०६.१४कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै
कंचित्कालं मृष्यतां वै ततोऽसि भविता द्विजः
सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः

३.२०६.१५ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु
दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत्

३.२०६.१६यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः

३.२०६.१७कर्मदोषेण विषमां गतिमाप्नोति दारुणाम्
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम

३.२०६.१८कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः
लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः

३.२०६.१९व्याध उवाच

३.२०६.२०प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत्

३.२०६.२१अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च
मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः

३.२०६.२२गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते

३.२०६.२३अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम्
शोचतो न भवेत्किंचित्केवलं परितप्यते

३.२०६.२४परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः

३.२०६.२५असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः
असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम्
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम्

३.२०६.२६न विषादे मनः कार्यं विषादो विषमुत्तमम्
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः

३.२०६.२७यं विषादोऽभिभवति विषमे समुपस्थिते
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते

३.२०६.२८अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्
न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम्

३.२०६.२९अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत्

३.२०६.३०भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम्

३.२०६.३१न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम्
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम

३.२०६.३२ब्राह्मण उवाच

३.२०६.३३कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव
नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित्

३.२०६.३४आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर

३.२०६.३५मार्कण्डेय उवाच

३.२०६.३६बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः

३.२०६.३७स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा
मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः

३.२०६.३८एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर
पृष्टवानसि यं तात धर्मं धर्मभृतां वर

३.२०६.३९पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम
मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः

३.२०६.४०युधिष्ठिर उवाच

३.२०६.४१अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम्
सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम

३.२०६.४२सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम्
न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम्