३.२०७.१वैशंपायन उवाच
३.२०७.२श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्
पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम्
३.२०७.३युधिष्ठिर उवाच
३.२०७.४कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा
नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः
३.२०७.५अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम्
३.२०७.६कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्
यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च
३.२०७.७एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन
कौतूहलसमाविष्टो यथातथ्यं महामुने
३.२०७.८मार्कण्डेय उवाच
३.२०७.९अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः
३.२०७.१०यथा च भगवानग्निः स्वयमेवाङ्गिराभवत्
संतापयन्स्वप्रभया नाशयंस्तिमिराणि च
३.२०७.११आश्रमस्थो महाभागो हव्यवाहं विशेषयन्
तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन्
३.२०७.१२तपश्चरंश्च हुतभुक्संतप्तस्तस्य तेजसा
भृशं ग्लानश्च तेजस्वी न स किंचित्प्रजज्ञिवान्
३.२०७.१३अथ संचिन्तयामास भगवान्हव्यवाहनः
अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रवर्तितः
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः
३.२०७.१४कथमग्निः पुनरहं भवेयमिति चिन्त्य सः
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम्
३.२०७.१५सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु
३.२०७.१६त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद
३.२०७.१७अग्निरुवाच
३.२०७.१८नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः
३.२०७.१९निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च
३.२०७.२०अङ्गिरा उवाच
३.२०७.२१कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा
३.२०७.२२मार्कण्डेय उवाच
३.२०७.२३तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत्
राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः
३.२०७.२४ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम्
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत
३.२०७.२५स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्
प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा
३.२०७.२६अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान्
कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह