३.२१४.१मार्कण्डेय उवाच
३.२१४.२शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप
जगाम पावकाभ्याशं तं चोवाच वराङ्गना
३.२१४.३मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि
करिष्यसि न चेदेवं मृतां मामुपधारय
३.२१४.४अहमङ्गिरसो भार्या शिवा नाम हुताशन
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्
३.२१४.५अग्निरुवाच
३.२१४.६कथं मां त्वं विजानीषे कामार्तमितराः कथम्
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः
३.२१४.७शिवोवाच
३.२१४.८अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम्
३.२१४.९मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चर
मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन
३.२१४.१०मार्कण्डेय उवाच
३.२१४.११ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः
प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना
३.२१४.१२अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके
३.२१४.१३तस्मादेतद्रक्ष्यमाणा गरुडी संभवाम्यहम्
वनान्निर्गमनं चैव सुखं मम भविष्यति
३.२१४.१४सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्
अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम्
३.२१४.१५दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा
राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः
३.२१४.१६सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती
३.२१४.१७शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्
पत्नीसरूपतां कृत्वा कामयामास पावकम्
३.२१४.१८दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च
३.२१४.१९षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम
तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा
३.२१४.२०तत्स्कन्नं तेजसा तत्र संभृतं जनयत्सुतम्
ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः
३.२१४.२१षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः
एकग्रीवस्त्वेककायः कुमारः समपद्यत
३.२१४.२२द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ
अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः
३.२१४.२३लोहिताभ्रेण महता संवृतः सह विद्युता
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः
३.२१४.२४गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम्
न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम्
३.२१४.२५तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा
संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान्
३.२१४.२६तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम्
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह
३.२१४.२७तावापतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिः
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः
३.२१४.२८महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः
३.२१४.२९द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम्
प्राध्मापयत भूतानां त्रासनं बलिनामपि
३.२१४.३०द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः
क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन्
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा
३.२१४.३१स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः
स पश्यन्विविधान्भावांश्चकार निनदं पुनः
३.२१४.३२तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः
भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः
३.२१४.३३ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान्
३.२१४.३४स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान्
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ
३.२१४.३५बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम्
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम्
३.२१४.३६स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन्
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात्
३.२१४.३७स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः
न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत्
३.२१४.३८सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः
३.२१४.३९स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह
उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः
३.२१४.४०ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ
३.२१४.४१पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः
अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम्