३. वनपर्व
३.२१५.१मार्कण्डेय उवाच

३.२१५.२ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान्
अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः

३.२१५.३निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः
तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान्
संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह

३.२१५.४अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः
यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती
न तु तत्स्वाहया कर्म कृतं जानाति वै जनः

३.२१५.५सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति
उपगम्य शनैः स्कन्दमाहाहं जननी तव

३.२१५.६अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम्
तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम्

३.२१५.७षड्भिरेव तदा जातमाहुस्तद्वनवासिनः
सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत
अहं जाने नैतदेवमिति राजन्पुनः पुनः

३.२१५.८विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः
पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात्
तत्तेन निखिलं सर्वमवबुद्धं यथातथम्

३.२१५.९विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः
स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः

३.२१५.१०मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश
जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः

३.२१५.११षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम्
शक्त्या देव्याः साधनं च तथा पारिषदामपि

३.२१५.१२विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै
तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः

३.२१५.१३अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः
अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः
श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन्

३.२१५.१४स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन्
अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम्

३.२१५.१५यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति
त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः

३.२१५.१६स तानुवाच व्यथितो बालोऽयं सुमहाबलः
स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत्

३.२१५.१७सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः
कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः

३.२१५.१८तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः
अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः

३.२१५.१९ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत्
अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः

३.२१५.२०ताः संपूज्य महासेनः कामांश्चासां प्रदाय सः
अपश्यदग्निमायान्तं पितरं बलिनां बली

३.२१५.२१स तु संपूजितस्तेन सह मातृगणेन ह
परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम्

३.२१५.२२सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा
धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत

३.२१५.२३लोहितस्योदधेः कन्या क्रूरा लोहितभोजना
परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत

३.२१५.२४अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः
रमयामास शैलस्थं बालं क्रीडनकैरिव