३.२१९.१मार्कण्डेय उवाच
३.२१९.२श्रिया जुष्टं महासेनं देवसेनापतिं कृतम्
सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन्
३.२१९.३ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्
३.२१९.४वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः
अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः
३.२१९.५अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्
असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि
३.२१९.६अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव
३.२१९.७स्कन्द उवाच
३.२१९.८मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः
यच्चाभीप्सथ तत्सर्वं संभविष्यति वस्तथा
३.२१९.९मार्कण्डेय उवाच
३.२१९.१०एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत्
उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः
३.२१९.११अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता
३.२१९.१२तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय
३.२१९.१३धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः
रोहिण्याद्योऽभवत्पूर्वमेवं संख्या समाभवत्
३.२१९.१४एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम्
३.२१९.१५विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम्
३.२१९.१६स्कन्द उवाच
३.२१९.१७एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम्
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा
३.२१९.१८मार्कण्डेय उवाच
३.२१९.१९अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः
३.२१९.२०स्कन्द उवाच
३.२१९.२१मातरस्तु भवत्यो मे भवतीनामहं सुतः
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम्
३.२१९.२२मातर ऊचुः
३.२१९.२३यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः
अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत्
३.२१९.२४भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ
प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः
३.२१९.२५स्कन्द उवाच
३.२१९.२६दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम्
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ
३.२१९.२७मातर ऊचुः
३.२१९.२८इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः
त्वया सह पृथग्भूता ये च तासामथेश्वराः
३.२१९.२९स्कन्द उवाच
३.२१९.३०प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम्
परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः
३.२१९.३१मातर ऊचुः
३.२१९.३२परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि
त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो
३.२१९.३३स्कन्द उवाच
३.२१९.३४यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः
३.२१९.३५अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्
परमं तेन सहिता सुखं वत्स्यथ पूजिताः
३.२१९.३६मार्कण्डेय उवाच
३.२१९.३७ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः
३.२१९.३८अपतत्स तदा भूमौ विसंज्ञोऽथ क्षुधान्वितः
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः
स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः
३.२१९.३९विनता तु महारौद्रा कथ्यते शकुनिग्रहः
पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम्
३.२१९.४०कष्टा दारुणरूपेण घोररूपा निशाचरी
पिशाची दारुणाकारा कथ्यते शीतपूतना
गर्भान्सा मानुषीणां तु हरते घोरदर्शना
३.२१९.४१अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः
सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः
३.२१९.४२दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्
अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा
३.२१९.४३कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसंभवाः
तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः
३.२१९.४४तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः
अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः
३.२१९.४५गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि
३.२१९.४६सरमा नाम या माता शुनां देवी जनाधिप
सापि गर्भान्समादत्ते मानुषीणां सदैव हि
३.२१९.४७पादपानां च या माता करञ्जनिलया हि सा
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः
३.२१९.४८इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे
३.२१९.४९कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते
३.२१९.५०गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते
३.२१९.५१या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा
उपविष्टं ततो गर्भं कथयन्ति मनीषिणः
३.२१९.५२लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते
३.२१९.५३पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते
३.२१९.५४एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः
यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः
३.२१९.५५ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः
३.२१९.५६तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्
बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः
३.२१९.५७एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्
आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः
३.२१९.५८ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम्
तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम्
३.२१९.५९यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः
३.२१९.६०आसीनश्च शयानश्च यः पश्यति नरः पितॄन्
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः
३.२१९.६१अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम्
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः
३.२१९.६२उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान्
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः
३.२१९.६३गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः
३.२१९.६४आविशन्ति च यं यक्षाः पुरुषं कालपर्यये
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः
३.२१९.६५अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित्
उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः
३.२१९.६६यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः
३.२१९.६७वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात्
उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम्
३.२१९.६८कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः
३.२१९.६९यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्
अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः
३.२१९.७०अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्
आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः
३.२१९.७१इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम्