३.२२०.१मार्कण्डेय उवाच
३.२२०.२यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम्
अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः
३.२२०.३इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्
तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम्
३.२२०.४स्वाहोवाच
३.२२०.५दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने
३.२२०.६न च मां कामिनीं पुत्र सम्यग्जानाति पावकः
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना
३.२२०.७स्कन्द उवाच
३.२२०.८हव्यं कव्यं च यत्किंचिद्द्विजा मन्त्रपुरस्कृतम्
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम्
३.२२०.९अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने
३.२२०.१०मार्कण्डेय उवाच
३.२२०.११एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत्
३.२२०.१२ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम्
३.२२०.१३रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया
हितार्थं सर्वलोकानां जातस्त्वमपराजितः
३.२२०.१४उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना
आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः
३.२२०.१५संभूतं लोहितोदे तु शुक्रशेषमवापतत्
सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि
आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत्
३.२२०.१६त एते विविधाकारा गणा ज्ञेया मनीषिभिः
तव पारिषदा घोरा य एते पिशिताशनाः
३.२२०.१७एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्
अपूजयदमेयात्मा पितरं पितृवत्सलः
३.२२०.१८अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः
व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत्
३.२२०.१९मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम्
नमस्कार्यं सदैवेह बालानां हितमिच्छता
३.२२०.२०स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः
३.२२०.२१एवमेते पिशाचानामसंख्येया गणाः स्मृताः
घण्टायाः सपताकायाः शृणु मे संभवं नृप
३.२२०.२२ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते
गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता
३.२२०.२३एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा
पताका कार्त्तिकेयस्य विशाखस्य च लोहिता
३.२२०.२४यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा
तैरेव रमते देवो महासेनो महाबलः
३.२२०.२५स संवृतः पिशाचानां गणैर्देवगणैस्तथा
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः
३.२२०.२६तेन वीरेण शुशुभे स शैलः शुभकाननः
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः
३.२२०.२७संतानकवनैः फुल्लैः करवीरवनैरपि
पारिजातवनैश्चैव जपाशोकवनैस्तथा
३.२२०.२८कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः
३.२२०.२९तत्र देवगणाः सर्वे सर्वे चैव महर्षयः
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः
३.२२०.३०तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा
हृष्टानां तत्र भूतानां श्रूयते निनदो महान्
३.२२०.३१एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात्