३.२२६.१वैशंपायन उवाच
३.२२६.२धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः
दुर्योधनमिदं काले कर्णो वचनमब्रवीत्
३.२२६.३प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत
भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा
३.२२६.४प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः
कृताः करप्रदाः सर्वे राजानस्ते नराधिप
३.२२६.५या हि सा दीप्यमानेव पाण्डवान्भजते पुरा
साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह
३.२२६.६इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे
अपश्याम श्रियं राजन्नचिरं शोककर्शिताः
३.२२६.७सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात्
त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते
३.२२६.८तथैव तव राजेन्द्र राजानः परवीरहन्
शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः
३.२२६.९तवाद्य पृथिवी राजन्निखिला सागराम्बरा
सपर्वतवना देवी सग्रामनगराकरा
नानावनोद्देशवती पत्तनैरुपशोभिता
३.२२६.१०वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः
पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव
३.२२६.११रुद्रैरिव यमो राजा मरुद्भिरिव वासवः
कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव
३.२२६.१२ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न
पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः
३.२२६.१३श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति
वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः
३.२२६.१४स प्रयाहि महाराज श्रिया परमया युतः
प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा
३.२२६.१५स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः
असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप
३.२२६.१६महाभिजनसंपन्नं भद्रे महति संस्थितम्
पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम्
३.२२६.१७यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते
पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत
३.२२६.१८समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते
जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम्
३.२२६.१९न पुत्रधनलाभेन न राज्येनापि विन्दति
प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात्
३.२२६.२०किं नु तस्य सुखं न स्यादाश्रमे यो धनंजयम्
अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्
३.२२६.२१सुवाससो हि ते भार्या वल्कलाजिनवाससम्
पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः
विनिन्दतां तथात्मानं जीवितं च धनच्युता
३.२२६.२२न तथा हि सभामध्ये तस्या भवितुमर्हति
वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः
३.२२६.२३एवमुक्त्वा तु राजानं कर्णः शकुनिना सह
तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय