३. वनपर्व
३.२२५.१जनमेजय उवाच

३.२२५.२एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः
सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः

३.२२५.३वैशंपायन उवाच

३.२२५.४सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम्
वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः

३.२२५.५तथा वने तान्वसतः प्रवीरा;न्स्वाध्यायवन्तश्च तपोधनाश्च
अभ्याययुर्वेदविदः पुराणा;स्तान्पूजयामासुरथो नराग्र्याः

३.२२५.६ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान्
स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत्

३.२२५.७अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन
प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च

३.२२५.८कृशांश्च वातातपकर्शिताङ्गा;न्दुःखस्य चोग्रस्य मुखे प्रपन्नान्
तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम्

३.२२५.९ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः
वने स्थितान्पार्थिवपुत्रपौत्रा;ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान्

३.२२५.१०प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान्
वाचं कथंचित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य

३.२२५.११कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः
अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी

३.२२५.१२प्रबोध्यते मागधसूतपूगै;र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः
पतत्रिसंघैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः

३.२२५.१३कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः
शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः

३.२२५.१४तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः
विदूयमानैरिव सर्वगात्रै;र्ध्रुवं न शेते वसतीरमर्षात्

३.२२५.१५यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान्
विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात्

३.२२५.१६तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव
प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ

३.२२५.१७समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान्
स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम्

३.२२५.१८स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः
सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः

३.२२५.१९अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत्
तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि

३.२२५.२०न पापकं ध्यास्यति धर्मपुत्रो; धनंजयश्चाप्यनुवर्तते तम्
अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन

३.२२५.२१स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः
विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान्

३.२२५.२२गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ
न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान्

३.२२५.२३दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः
मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनंजयं च

३.२२५.२४शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता
स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात्

३.२२५.२५क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम्
न स्यात्फलं तस्य कुतः प्रसिद्धि;रन्यत्र दैवादिति चिन्तयामि

३.२२५.२६कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन
मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः

३.२२५.२७ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या
ध्रुवं दिनादौ रजनीप्रणाश;स्तथा क्षपादौ च दिनप्रणाशः

३.२२५.२८क्रियेत कस्मान्न परे च कुर्यु;र्वित्तं न दद्युः पुरुषाः कथंचित्
प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात्

३.२२५.२९कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम्
अरक्ष्यमाणः शतधा विशीर्ये;द्ध्रुवं न नाशोऽस्ति कृतस्य लोके

३.२२५.३०गतो ह्यरण्यादपि शक्रलोकं; धनंजयः पश्यत वीर्यमस्य
अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः

३.२२५.३१स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत्
अन्यत्र कालोपहताननेका;न्समीक्षमाणस्तु कुरून्मुमूर्षून्

३.२२५.३२धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम्
अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु

३.२२५.३३निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्च
अबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः