३. वनपर्व
३.२३०.१वैशंपायन उवाच

३.२३०.२ततस्ते सहिताः सर्वे दुर्योधनमुपागमन्
अब्रुवंश्च महाराज यदूचुः कौरवं प्रति

३.२३०.३गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्
अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत

३.२३०.४शासतैनानधर्मज्ञान्मम विप्रियकारिणः
यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः

३.२३०.५दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः
सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः

३.२३०.६ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात्
सिंहनादेन महता पूरयन्तो दिशो दश

३.२३०.७ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप
ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत्

३.२३०.८यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः
ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन्

३.२३०.९गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति
अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः

३.२३०.१०अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत
प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन्

३.२३०.११तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान्
सर्वे ते प्राद्रवन्संख्ये धार्तराष्ट्रस्य पश्यतः

३.२३०.१२तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्
वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः

३.२३०.१३आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण राधेयः प्रत्यवारयत्

३.२३०.१४क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः
गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः

३.२३०.१५पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः
क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम्

३.२३०.१६ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता
भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः

३.२३०.१७गन्धर्वभूता पृथिवी क्षणेन समपद्यत
आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः

३.२३०.१८अथ दुर्योधनो राजा शकुनिश्चापि सौबलः
दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः
न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः

३.२३०.१९भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः
महता रथघोषेण हयचारेण चाप्युत
वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन्

३.२३०.२०ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह
तदा सुतुमुलं युद्धमभवल्लोमहर्षणम्

३.२३०.२१ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः
उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान्

३.२३०.२२गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः
उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः

३.२३०.२३ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्
तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया

३.२३०.२४एकैको हि तदा योधो धार्तराष्ट्रस्य भारत
पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह

३.२३०.२५ततः संपीड्यमानास्ते बलेन महता तदा
प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः

३.२३०.२६भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः
कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः

३.२३०.२७दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः

३.२३०.२८सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः
जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे

३.२३०.२९असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः
सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन्

३.२३०.३०अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन्
ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्

३.२३०.३१अन्ये छत्रं वरूथं च बन्धुरं च तथापरे
गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम्

३.२३०.३२ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्
विकर्णरथमास्थाय मोक्षायाश्वानचोदयत्