३. वनपर्व
३.२३१.१वैशंपायन उवाच

३.२३१.२गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे
संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः

३.२३१.३तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्
दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः

३.२३१.४तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम्
महता शरवर्षेण सोऽभ्यवर्षदरिंदमः

३.२३१.५अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम्
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन्

३.२३१.६युगमीषां वरूथं च तथैव ध्वजसारथी
अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम्

३.२३१.७दुर्योधनं चित्रसेनो विरथं पतितं भुवि
अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत्

३.२३१.८तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः

३.२३१.९विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः
विन्दानुविन्दावपरे राजदारांश्च सर्वशः

३.२३१.१०सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा

३.२३१.११शकटापणवेश्याश्च यानयुग्यं च सर्वशः
शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ

३.२३१.१२प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत

३.२३१.१३दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः

३.२३१.१४इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः
आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन्

३.२३१.१५तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम्
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत

३.२३१.१६अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्

३.२३१.१७दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः
द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम्

३.२३१.१८तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्
दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः
येनास्माकं हृतो भार आसीनानां सुखावहः

३.२३१.१९शीतवातातपसहांस्तपसा चैव कर्शितान्
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः

३.२३१.२०अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः
ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम्

३.२३१.२१अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम्
अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः

३.२३१.२२एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम्
न कालः परुषस्यायमिति राजाभ्यभाषत