३.२४३.१वैशंपायन उवाच
३.२४३.२प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्
जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम्
३.२४३.३लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा
ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव
३.२४३.४अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम्
युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः
नैव तस्य क्रतोरेष कलामर्हति षोडशीम्
३.२४३.५एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम्
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः
३.२४३.६ययातिर्नहुषश्चापि मान्धाता भरतस्तथा
क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः
३.२४३.७एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ
प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः
३.२४३.८अभिवाद्य ततः पादौ मातापित्रोर्विशां पते
भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः
३.२४३.९अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः
निषसादासने मुख्ये भ्रातृभिः परिवारितः
३.२४३.१०तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः
३.२४३.११हतेषु युधि पार्थेषु राजसूये तथा त्वया
आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः
३.२४३.१२तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः
सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु
३.२४३.१३निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ
राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि
३.२४३.१४एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः
३.२४३.१५सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः
कदा तु तं क्रतुवरं राजसूयं महाधनम्
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः
३.२४३.१६तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः
३.२४३.१७अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः
प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः
३.२४३.१८दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुंगवान्
प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः
तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत
३.२४३.१९पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित्
३.२४३.२०भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता
प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति
३.२४३.२१एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्
अनुस्मरंश्च संक्लेशान्न शान्तिमुपयाति सः
३.२४३.२२तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम्
३.२४३.२३धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम्
भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा
३.२४३.२४संगम्य सूतपुत्रेण कर्णेनाहवशोभिना
दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः
३.२४३.२५भ्रातॄणां च प्रियं राजन्स चकार परंतपः
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम्