३. वनपर्व
३.२४७.१देवदूत उवाच

३.२४७.२महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्
संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा

३.२४७.३उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने

३.२४७.४नातप्ततपसः पुंसो नामहायज्ञयाजिनः
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल

३.२४७.५धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः
दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः

३.२४७.६तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम्
लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः

३.२४७.७देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा

३.२४७.८एषां देवनिकायानां पृथक्पृथगनेकशः
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः

३.२४७.९त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल

३.२४७.१०नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा

३.२४७.११बीभत्समशुभं वापि रोगा वा तत्र केचन
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः

३.२४७.१२शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने
न शोको न जरा तत्र नायासपरिदेवने

३.२४७.१३ईदृशः स मुने लोकः स्वकर्मफलहेतुकः
सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः

३.२४७.१४तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम्
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत

३.२४७.१५न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने

३.२४७.१६न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः
पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते

३.२४७.१७ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः
सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने

३.२४७.१८तेषां तथाविधानां तु लोकानां मुनिपुंगव
उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः

३.२४७.१९पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः

३.२४७.२०ऋभवो नाम तत्रान्ये देवानामपि देवताः
तेषां लोकाः परतरे तान्यजन्तीह देवताः

३.२४७.२१स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः

३.२४७.२२न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः

३.२४७.२३न सुखे सुखकामाश्च देवदेवाः सनातनाः
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा

३.२४७.२४जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने

३.२४७.२५देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः

३.२४७.२६त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः

३.२४७.२७सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः

३.२४७.२८एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे

३.२४७.२९कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते

३.२४७.३०सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत्
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल

३.२४७.३१असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः
यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम्

३.२४७.३२संज्ञामोहश्च पततां रजसा च प्रधर्षणम्
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्

३.२४७.३३आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम्

३.२४७.३४अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने
शुभानुशययोगेन मनुष्येषूपजायते

३.२४७.३५तत्रापि सुमहाभागः सुखभागभिजायते
न चेत्संबुध्यते तत्र गच्छत्यधमतां ततः

३.२४७.३६इह यत्क्रियते कर्म तत्परत्रोपभुज्यते
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता

३.२४७.३७एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल
तवानुकम्पया साधो साधु गच्छाम माचिरम्

३.२४७.३८व्यास उवाच

३.२४७.३९एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह

३.२४७.४०देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम्
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा

३.२४७.४१पतनं तन्महद्दुःखं परितापः सुदारुणः
स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये

३.२४७.४२यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम्

३.२४७.४३इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम्
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम्

३.२४७.४४तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह

३.२४७.४५ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम्
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम्

३.२४७.४६तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि

३.२४७.४७सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
पर्यायेणोपवर्तन्ते नरं नेमिमरा इव

३.२४७.४८पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः

३.२४७.४९वैशंपायन उवाच

३.२४७.५०एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम्
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति