३. वनपर्व
३.२४६.१युधिष्ठिर उवाच

३.२४६.२व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे

३.२४६.३प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः

३.२४६.४व्यास उवाच

३.२४६.५शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः

३.२४६.६अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः
सत्रमिष्टीकृतं नाम समुपास्ते महातपाः

३.२४६.७सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः
कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत्

३.२४६.८दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः
देवतातिथिशेषेण कुरुते देहयापनम्

३.२४६.९तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः
प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि

३.२४६.१०स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना

३.२४६.११व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः
शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात्

३.२४६.१२तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम्
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति

३.२४६.१३तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम्
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह

३.२४६.१४बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव
विकचः परुषा वाचो व्याहरन्विविधा मुनिः

३.२४६.१५अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम

३.२४६.१६स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम्

३.२४६.१७प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः

३.२४६.१८ततस्तदन्नं रसवत्स एव क्षुधयान्वितः
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः

३.२४६.१९भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः
अथानुलिलिपेऽङ्गानि जगाम च यथागतम्

३.२४६.२०एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः
आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः

३.२४६.२१निराहारस्तु स मुनिरुञ्छमार्जयते पुनः
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा

३.२४६.२२न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम्

३.२४६.२३तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम्
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः

३.२४६.२४न चास्य मानसं किंचिद्विकारं ददृशे मुनिः
शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः

३.२४६.२५तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः

३.२४६.२६क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च
विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति

३.२४६.२७आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम्
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः

३.२४६.२८श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा
तत्सर्वं भवता साधो यथावदुपपादितम्

३.२४६.२९प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह
इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः

३.२४६.३०दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम्
जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम्

३.२४६.३१अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत

३.२४६.३२इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः

३.२४६.३३हंससारसयुक्तेन किङ्किणीजालमालिना
कामगेन विचित्रेण दिव्यगन्धवता तथा

३.२४६.३४उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम्
समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने

३.२४६.३५तमेवंवादिनमृषिर्देवदूतमुवाच ह
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम्

३.२४६.३६के गुणास्तत्र वसतां किं तपः कश्च निश्चयः
स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक

३.२४६.३७सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो

३.२४६.३८यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन्
श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव