३. वनपर्व
३.२५२.१वैशंपायन उवाच

३.२५२.२सरोषरागोपहतेन वल्गुना; सरागनेत्रेण नतोन्नतभ्रुवा
मुखेन विस्फूर्य सुवीरराष्ट्रपं; ततोऽब्रवीत्तं द्रुपदात्मजा पुनः

३.२५२.३यशस्विनस्तीक्ष्णविषान्महारथा;नधिक्षिपन्मूढ न लज्जसे कथम्
महेन्द्रकल्पान्निरतान्स्वकर्मसु; स्थितान्समूहेष्वपि यक्षरक्षसाम्

३.२५२.४न किंचिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा
तपस्विनं संपरिपूर्णविद्यं; भषन्ति हैवं श्वनराः सुवीर

३.२५२.५अहं तु मन्ये तव नास्ति कश्चि;देतादृशे क्षत्रियसंनिवेशे
यस्त्वाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा प्रतिसंहरेत

३.२५२.६नागं प्रभिन्नं गिरिकूटकल्प;मुपत्यकां हैमवतीं चरन्तम्
दण्डीव यूथादपसेधसे त्वं; यो जेतुमाशंससि धर्मराजम्

३.२५२.७बाल्यात्प्रसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल्लुनासि
पदा समाहत्य पलायमानः; क्रुद्धं यदा द्रक्ष्यसि भीमसेनम्

३.२५२.८महाबलं घोरतरं प्रवृद्धं; जातं हरिं पर्वतकन्दरेषु
प्रसुप्तमुग्रं प्रपदेन हंसि; यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम्

३.२५२.९कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ; मत्तः पदाक्रामसि पुच्छदेशे
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां; जघन्यजाभ्यां प्रयुयुत्ससे त्वम्

३.२५२.१०यथा च वेणुः कदली नलो वा; फलन्त्यभावाय न भूतयेऽऽत्मनः
तथैव मां तैः परिरक्ष्यमाणा;मादास्यसे कर्कटकीव गर्भम्

३.२५२.११जयद्रथ उवाच

३.२५२.१२जानामि कृष्णे विदितं ममैत;द्यथाविधास्ते नरदेवपुत्राः
न त्वेवमेतेन विभीषणेन; शक्या वयं त्रासयितुं त्वयाद्य

३.२५२.१३वयं पुनः सप्तदशेषु कृष्णे; कुलेषु सर्वेऽनवमेषु जाताः
षड्भ्यो गुणेभ्योऽभ्यधिका विहीना;न्मन्यामहे द्रौपदि पाण्डुपुत्रान्

३.२५२.१४सा क्षिप्रमातिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः
आशंस वा त्वं कृपणं वदन्ती; सौवीरराजस्य पुनः प्रसादम्

३.२५२.१५द्रौपद्युवाच

३.२५२.१६महाबला किं त्विह दुर्बलेव; सौवीरराजस्य मताहमस्मि
याहं प्रमाथादिह संप्रतीता; सौवीरराजं कृपणं वदेयम्

३.२५२.१७यस्या हि कृष्णौ पदवीं चरेतां; समास्थितावेकरथे सहायौ
इन्द्रोऽपि तां नापहरेत्कथंचि;न्मनुष्यमात्रः कृपणः कुतोऽन्यः

३.२५२.१८यदा किरीटी परवीरघाती; निघ्नन्रथस्थो द्विषतां मनांसि
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा; कक्षं दहन्नग्निरिवोष्णगेषु

३.२५२.१९जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश्चापि सर्वे
एते हि सर्वे मम राजपुत्राः; प्रहृष्टरूपाः पदवीं चरेयुः

३.२५२.२०मौर्वीविसृष्टाः स्तनयित्नुघोषा; गाण्डीवमुक्तास्त्वतिवेगवन्तः
हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घोरतरं नदन्ति

३.२५२.२१गाण्डीवमुक्तांश्च महाशरौघा;न्पतंगसंघानिव शीघ्रवेगान्
सशङ्खघोषः सतलत्रघोषो; गाण्डीवधन्वा मुहुरुद्वमंश्च
यदा शरानर्पयिता तवोरसि; तदा मनस्ते किमिवाभविष्यत्

३.२५२.२२गदाहस्तं भीममभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश्च
अमर्षजं क्रोधविषं वमन्तौ; दृष्ट्वा चिरं तापमुपैष्यसेऽधम

३.२५२.२३यथा चाहं नातिचरे कथंचि;त्पतीन्महार्हान्मनसापि जातु
तेनाद्य सत्येन वशीकृतं त्वां; द्रष्टास्मि पार्थैः परिकृष्यमाणम्

३.२५२.२४न संभ्रमं गन्तुमहं हि शक्ष्ये; त्वया नृशंसेन विकृष्यमाणा
समागताहं हि कुरुप्रवीरैः; पुनर्वनं काम्यकमागता च

३.२५२.२५वैशंपायन उवाच

३.२५२.२६सा ताननुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणानवभर्त्सयन्ती
प्रोवाच मा मा स्पृशतेति भीता; धौम्यं प्रचुक्रोश पुरोहितं सा

३.२५२.२७जग्राह तामुत्तरवस्त्रदेशे; जयद्रथस्तं समवाक्षिपत्सा
तया समाक्षिप्ततनुः स पापः; पपात शाखीव निकृत्तमूलः

३.२५२.२८प्रगृह्यमाणा तु महाजवेन; मुहुर्विनिःश्वस्य च राजपुत्री
सा कृष्यमाणा रथमारुरोह; धौम्यस्य पादावभिवाद्य कृष्णा

३.२५२.२९धौम्य उवाच

३.२५२.३०नेयं शक्या त्वया नेतुमविजित्य महारथान्
धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ

३.२५२.३१क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम्
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान्

३.२५२.३२वैशंपायन उवाच

३.२५२.३३इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम्
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः