३.२५१.१वैशंपायन उवाच
३.२५१.२अथासीनेषु सर्वेषु तेषु राजसु भारत
कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत्
३.२५१.३यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः
सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान्
३.२५१.४एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते
३.२५१.५दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्
तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी
३.२५१.६कोटिकाश्य उवाच
३.२५१.७एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम्
३.२५१.८सर्वेषां चैव पार्थानां प्रिया बहुमता सती
तया समेत्य सौवीर सुवीरान्सुसुखी व्रज
३.२५१.९वैशंपायन उवाच
३.२५१.१०एवमुक्तः प्रत्युवाच पश्यामो द्रौपदीमिति
पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः
३.२५१.११स प्रविश्याश्रमं शून्यं सिंहगोष्ठं वृको यथा
आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत्
३.२५१.१२कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः
येषां कुशलकामासि तेऽपि कच्चिदनामयाः
३.२५१.१३द्रौपद्युवाच
३.२५१.१४कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि
३.२५१.१५पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज
मृगान्पञ्चाशतं चैव प्रातराशं ददानि ते
३.२५१.१६ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान्
ऋश्यान्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून्
३.२५१.१७वराहान्महिषांश्चैव याश्चान्या मृगजातयः
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्ठिरः
३.२५१.१८जयद्रथ उवाच
३.२५१.१९कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता
एहि मे रथमारोह सुखमाप्नुहि केवलम्
३.२५१.२०गतश्रीकांश्च्युतान्राज्यात्कृपणान्गतचेतसः
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि
३.२५१.२१न वै प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते
युञ्जानमनुयुञ्जीत न श्रियः संक्षये वसेत्
३.२५१.२२श्रिया विहीना राज्याच्च विनष्टाः शाश्वतीः समाः
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम्
३.२५१.२३भार्या मे भव सुश्रोणि त्यजैनान्सुखमाप्नुहि
अखिलान्सिन्धुसौवीरानवाप्नुहि मया सह
३.२५१.२४वैशंपायन उवाच
३.२५१.२५इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्
कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी
३.२५१.२६अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा
मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम्
३.२५१.२७सा काङ्क्षमाणा भर्तॄणामुपयानमनिन्दिता
विलोभयामास परं वाक्यैर्वाक्यानि युञ्जती