३.२५४.१वैशंपायन उवाच
३.२५४.२ततो घोरतरः शब्दो वने समभवत्तदा
भीमसेनार्जुनौ दृष्ट्वा क्षत्रियाणाममर्षिणाम्
३.२५४.३तेषां ध्वजाग्राण्यभिवीक्ष्य राजा; स्वयं दुरात्मा कुरुपुंगवानाम्
जयद्रथो याज्ञसेनीमुवाच; रथे स्थितां भानुमतीं हतौजाः
३.२५४.४आयान्तीमे पञ्च रथा महान्तो; मन्ये च कृष्णे पतयस्तवैते
सा जानती ख्यापय नः सुकेशि; परं परं पाण्डवानां रथस्थम्
३.२५४.५द्रौपद्युवाच
३.२५४.६किं ते ज्ञातैर्मूढ महाधनुर्धरै;रनायुष्यं कर्म कृत्वातिघोरम्
एते वीराः पतयो मे समेता; न वः शेषः कश्चिदिहास्ति युद्धे
३.२५४.७आख्यातव्यं त्वेव सर्वं मुमूर्षो;र्मया तुभ्यं पृष्टया धर्म एषः
न मे व्यथा विद्यते त्वद्भयं वा; संपश्यन्त्याः सानुजं धर्मराजम्
३.२५४.८यस्य ध्वजाग्रे नदतो मृदङ्गौ; नन्दोपनन्दौ मधुरौ युक्तरूपौ
एतं स्वधर्मार्थविनिश्चयज्ञं; सदा जनाः कृत्यवन्तोऽनुयान्ति
३.२५४.९य एष जाम्बूनदशुद्धगौरः; प्रचण्डघोणस्तनुरायताक्षः
एतं कुरुश्रेष्ठतमं वदन्ति; युधिष्ठिरं धर्मसुतं पतिं मे
३.२५४.१०अप्येष शत्रोः शरणागतस्य; दद्यात्प्राणान्धर्मचारी नृवीरः
परैह्येनं मूढ जवेन भूतये; त्वमात्मनः प्राञ्जलिर्न्यस्तशस्त्रः
३.२५४.११अथाप्येनं पश्यसि यं रथस्थं; महाभुजं शालमिव प्रवृद्धम्
संदष्टोष्ठं भ्रुकुटीसंहतभ्रुवं; वृकोदरो नाम पतिर्ममैषः
३.२५४.१२आजानेया बलिनः साधु दान्ता; महाबलाः शूरमुदावहन्ति
एतस्य कर्माण्यतिमानुषाणि; भीमेति शब्दोऽस्य गतः पृथिव्याम्
३.२५४.१३नास्यापराद्धाः शेषमिहाप्नुवन्ति; नाप्यस्य वैरं विस्मरते कदाचित्
वैरस्यान्तं संविधायोपयाति; पश्चाच्छान्तिं न च गच्छत्यतीव
३.२५४.१४मृदुर्वदान्यो धृतिमान्यशस्वी; जितेन्द्रियो वृद्धसेवी नृवीरः
भ्राता च शिष्यश्च युधिष्ठिरस्य; धनंजयो नाम पतिर्ममैषः
३.२५४.१५यो वै न कामान्न भयान्न लोभा;त्त्यजेद्धर्मं न नृशंसं च कुर्यात्
स एष वैश्वानरतुल्यतेजाः; कुन्तीसुतः शत्रुसहः प्रमाथी
३.२५४.१६यः सर्वधर्मार्थविनिश्चयज्ञो; भयार्तानां भयहर्ता मनीषी
यस्योत्तमं रूपमाहुः पृथिव्यां; यं पाण्डवाः परिरक्षन्ति सर्वे
३.२५४.१७प्राणैर्गरीयांसमनुव्रतं वै; स एष वीरो नकुलः पतिर्मे
यः खड्गयोधी लघुचित्रहस्तो; महांश्च धीमान्सहदेवोऽद्वितीयः
३.२५४.१८यस्याद्य कर्म द्रक्ष्यसे मूढसत्त्व; शतक्रतोर्वा दैत्यसेनासु संख्ये
शूरः कृतास्त्रो मतिमान्मनीषी; प्रियंकरो धर्मसुतस्य राज्ञः
३.२५४.१९य एष चन्द्रार्कसमानतेजा; जघन्यजः पाण्डवानां प्रियश्च
बुद्ध्या समो यस्य नरो न विद्यते; वक्ता तथा सत्सु विनिश्चयज्ञः
३.२५४.२०स एष शूरो नित्यममर्षणश्च; धीमान्प्राज्ञः सहदेवः पतिर्मे
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं; न त्वेवैष व्याहरेद्धर्मबाह्यम्
सदा मनस्वी क्षत्रधर्मे निविष्टः; कुन्त्याः प्राणैरिष्टतमो नृवीरः
३.२५४.२१विशीर्यन्तीं नावमिवार्णवान्ते; रत्नाभिपूर्णां मकरस्य पृष्ठे
सेनां तवेमां हतसर्वयोधां; विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः
३.२५४.२२इत्येते वै कथिताः पाण्डुपुत्रा; यांस्त्वं मोहादवमन्य प्रवृत्तः
यद्येतैस्त्वं मुच्यसेऽरिष्टदेहः; पुनर्जन्म प्राप्स्यसे जीव एव
३.२५४.२३वैशंपायन उवाच
३.२५४.२४ततः पार्थाः पञ्च पञ्चेन्द्रकल्पा;स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन्
रथानीकं शरवर्षान्धकारं; चक्रुः क्रुद्धाः सर्वतः संनिगृह्य