३. वनपर्व
३.२५७.१जनमेजय उवाच

३.२५७.२एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः

३.२५७.३वैशंपायन उवाच

३.२५७.४एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम्
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः

३.२५७.५तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम्
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः

३.२५७.६मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम्
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः

३.२५७.७कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्

३.२५७.८न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित्
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्

३.२५७.९तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम्
पराजयं च संग्रामे ससहायः समाप्तवान्

३.२५७.१०प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम्
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम्

३.२५७.११दुःखश्चायं वने वासो मृगयायां च जीविका
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम्
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम्

३.२५७.१२अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्