३. वनपर्व
३.२५८.१मार्कण्डेय उवाच

३.२५८.२प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ
रक्षसा जानकी तस्य हृता भार्या बलीयसा

३.२५८.३आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम्

३.२५८.४प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः

३.२५८.५युधिष्ठिर उवाच

३.२५८.६कस्मिन्रामः कुले जातः किंवीर्यः किंपराक्रमः
रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह

३.२५८.७एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः

३.२५८.८मार्कण्डेय उवाच

३.२५८.९अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः
तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः

३.२५८.१०अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः

३.२५८.११रामस्य माता कौसल्या कैकेयी भरतस्य तु
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ

३.२५८.१२विदेहराजो जनकः सीता तस्यात्मजा विभो
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्

३.२५८.१३एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर

३.२५८.१४पितामहो रावणस्य साक्षाद्देवः प्रजापतिः
स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः

३.२५८.१५पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः

३.२५८.१६पितरं स समुत्सृज्य पितामहमुपस्थितः
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना

३.२५८.१७स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै

३.२५८.१८पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह
अमरत्वं धनेशत्वं लोकपालत्वमेव च

३.२५८.१९ईशानेन तथा सख्यं पुत्रं च नलकूबरम्
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम्