३. वनपर्व
३.२६३.१मार्कण्डेय उवाच

३.२६३.२सखा दशरथस्यासीज्जटायुररुणात्मजः
गृध्रराजो महावीर्यः संपातिर्यस्य सोदरः

३.२६३.३स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम्
क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम्

३.२६३.४अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम्
ध्रियमाणे मयि कथं हरिष्यसि निशाचर
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम्

३.२६३.५उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम्
पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव

३.२६३.६स वध्यमानो गृध्रेण रामप्रियहितैषिणा
खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः

३.२६३.७निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम्
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः

३.२६३.८यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम्
सरो वा सरितं वापि तत्र मुञ्चति भूषणम्

३.२६३.९सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान्
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी

३.२६३.१०तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम्
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा

३.२६३.११एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्
निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा

३.२६३.१२कथमुत्सृज्य वैदेहीं वने राक्षससेविते
इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत्

३.२६३.१३मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम्
भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत

३.२६३.१४गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्
अपि जीवति वैदेही नेति पश्यामि लक्ष्मण

३.२६३.१५तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः

३.२६३.१६दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्
स ददर्श तदा गृध्रं निहतं पर्वतोपमम्

३.२६३.१७राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः

३.२६३.१८स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ
गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह

३.२६३.१९तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे
कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ

३.२६३.२०ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम्

३.२६३.२१अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः
तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च

३.२६३.२२दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम्
संस्कारं लम्भयामास सखायं पूजयन्पितुः

३.२६३.२३ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम्
विध्वस्तकलशं शून्यं गोमायुबलसेवितम्

३.२६३.२४दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ
जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ

३.२६३.२५वने महति तस्मिंस्तु रामः सौमित्रिणा सह
ददर्श मृगयूथानि द्रवमाणानि सर्वशः
शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः

३.२६३.२६अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम्
मेघपर्वतसंकाशं शालस्कन्धं महाभुजम्
उरोगतविशालाक्षं महोदरमहामुखम्

३.२६३.२७यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम्
विषादमगमत्सद्यः सौमित्रिरथ भारत

३.२६३.२८स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम्
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम

३.२६३.२९हरणं चैव वैदेह्या मम चायमुपप्लवः
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा

३.२६३.३०नाहं त्वां सह वैदेह्या समेतं कोसलागतम्
द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम्

३.२६३.३१द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः
अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा

३.२६३.३२एवं बहुविधं धीमान्विललाप स लक्ष्मणः
तमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः

३.२६३.३३मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः

३.२६३.३४इत्येवं वदता तस्य भुजो रामेण पातितः
खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत्

३.२६३.३५ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली
सौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम्

३.२६३.३६पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम्
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः

३.२६३.३७तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन्

३.२६३.३८पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे

३.२६३.३९तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप
प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम्

३.२६३.४०रावणेन हृता सीता राज्ञा लङ्कानिवासिना
सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति

३.२६३.४१एषा पम्पा शिवजला हंसकारण्डवायुता
ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी

३.२६३.४२संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह
भ्राता वानरराजस्य वालिनो हेममालिनः

३.२६३.४३एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्
ध्रुवं वानरराजस्य विदितो रावणालयः

३.२६३.४४इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः
विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ