३.२६२.१मार्कण्डेय उवाच
३.२६२.२मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम्
पूजयामास सत्कारैः फलमूलादिभिस्तथा
३.२६२.३विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः
उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम्
३.२६२.४न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव
कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा
३.२६२.५किमिहागमने चापि कार्यं ते राक्षसेश्वर
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम्
३.२६२.६शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम्
मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम्
३.२६२.७अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै
बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः
३.२६२.८प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः
विनाशमुखमेतत्ते केनाख्यातं दुरात्मना
३.२६२.९तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन्
अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम्
३.२६२.१०मारीचश्चिन्तयामास विशिष्टान्मरणं वरम्
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम्
३.२६२.११ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम्
किं ते साह्यं मया कार्यं करिष्याम्यवशोऽपि तत्
३.२६२.१२तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः
३.२६२.१३ध्रुवं सीता समालक्ष्य त्वां रामं चोदयिष्यति
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति
३.२६२.१४तामादायापनेष्यामि ततः स न भविष्यति
भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे
३.२६२.१५इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः
रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः
३.२६२.१६ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः
चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम्
३.२६२.१७रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक्
मृगश्च भूत्वा मारीचस्तं देशमुपजग्मतुः
३.२६२.१८दर्शयामास वैदेहीं मारीचो मृगरूपधृक्
चोदयामास तस्यार्थे सा रामं विधिचोदिता
३.२६२.१९रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया
३.२६२.२०स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान्
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा
३.२६२.२१सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन्
चकर्ष महदध्वानं रामस्तं बुबुधे ततः
३.२६२.२२निशाचरं विदित्वा तं राघवः प्रतिभानवान्
अमोघं शरमादाय जघान मृगरूपिणम्
३.२६२.२३स रामबाणाभिहतः कृत्वा रामस्वरं तदा
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह
३.२६२.२४शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्
सा प्राद्रवद्यतः शब्दस्तामुवाचाथ लक्ष्मणः
३.२६२.२५अलं ते शङ्कया भीरु को रामं विषहिष्यति
मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मिते
३.२६२.२६इत्युक्त्वा सा प्ररुदती पर्यशङ्कत देवरम्
हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणम्
३.२६२.२७सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता
नैष कालो भवेन्मूढ यं त्वं प्रार्थयसे हृदा
३.२६२.२८अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम्
३.२६२.२९रामं भर्तारमुत्सृज्य न त्वहं त्वां कथंचन
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा
३.२६२.३०एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघवः
पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः
स रामस्य पदं गृह्य प्रससार धनुर्धरः
३.२६२.३१एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः
यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्
३.२६२.३२सा तमालक्ष्य संप्राप्तं धर्मज्ञा जनकात्मजा
निमन्त्रयामास तदा फलमूलाशनादिभिः
३.२६२.३३अवमन्य स तत्सर्वं स्वरूपं प्रतिपद्य च
सान्त्वयामास वैदेहीमिति राक्षसपुंगवः
३.२६२.३४सीते राक्षसराजोऽहं रावणो नाम विश्रुतः
मम लङ्का पुरी नाम्ना रम्या पारे महोदधेः
३.२६२.३५तत्र त्वं वरनारीषु शोभिष्यसि मया सह
भार्या मे भव सुश्रोणि तापसं त्यज राघवम्
३.२६२.३६एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः
३.२६२.३७प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत्
शैत्यमग्निरियान्नाहं त्यजेयं रघुनन्दनम्
३.२६२.३८कथं हि भिन्नकरटं पद्मिनं वनगोचरम्
उपस्थाय महानागं करेणुः सूकरं स्पृशेत्
३.२६२.३९कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरे
३.२६२.४०इति सा तं समाभाष्य प्रविवेशाश्रमं पुनः
तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत्
३.२६२.४१भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम्
मूर्धजेषु निजग्राह खमुपाचक्रमे ततः
३.२६२.४२तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः
रुदतीं राम रामेति ह्रियमाणां तपस्विनीम्