३. वनपर्व
३.२६५.१मार्कण्डेय उवाच

३.२६५.२ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम्
मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम्

३.२६५.३राक्षसीभिरुपास्यन्तीं समासीनां शिलातले
रावणः कामबाणार्तो ददर्शोपससर्प च

३.२६५.४देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि
अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः

३.२६५.५दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्

३.२६५.६स कल्पवृक्षसदृशो यत्नादपि विभूषितः
श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः

३.२६५.७स तस्यास्तनुमध्यायाः समीपे रजनीचरः
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः

३.२६५.८स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः
इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम्

३.२६५.९सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते

३.२६५.१०भजस्व मां वरारोहे महार्हाभरणाम्बरा
भव मे सर्वनारीणामुत्तमा वरवर्णिनि

३.२६५.११सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः
सन्ति दानवकन्याश्च दैत्यानां चापि योषितः

३.२६५.१२चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः
द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम्

३.२६५.१३ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः

३.२६५.१४गन्धर्वाप्सरसो भद्रे मामापानगतं सदा
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम

३.२६५.१५पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः
पञ्चमो लोकपालानामिति मे प्रथितं यशः

३.२६५.१६दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च
यथैव त्रिदशेशस्य तथैव मम भामिनि

३.२६५.१७क्षीयतां दुष्कृतं कर्म वनवासकृतं तव
भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा

३.२६५.१८इत्युक्ता तेन वैदेही परिवृत्य शुभानना
तृणमन्तरतः कृत्वा तमुवाच निशाचरम्

३.२६५.१९अशिवेनातिवामोरूरजस्रं नेत्रवारिणा
स्तनावपतितौ बाला सहितावभिवर्षती
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता

३.२६५.२०असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर
विषादयुक्तमेतत्ते मया श्रुतमभाग्यया

३.२६५.२१तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्
परदारास्म्यलभ्या च सततं च पतिव्रता

३.२६५.२२न चैवोपयिकी भार्या मानुषी कृपणा तव
विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि

३.२६५.२३प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव
न च पालयसे धर्मं लोकपालसमः कथम्

३.२६५.२४भ्रातरं राजराजानं महेश्वरसखं प्रभुम्
धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे

३.२६५.२५इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ
शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा

३.२६५.२६तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता
ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि

३.२६५.२७तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम्
प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः

३.२६५.२८काममङ्गानि मे सीते दुनोतु मकरध्वजः
न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम्

३.२६५.२९किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम्
आहारभूतमस्माकं राममेवानुरुध्यसे

३.२६५.३०इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्

३.२६५.३१राक्षसीभिः परिवृता वैदेही शोककर्शिता
सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा