३.२६६.१मार्कण्डेय उवाच
३.२६६.२राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः
वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः
३.२६६.३स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम्
ग्रहनक्षत्रताराभिरनुयातममित्रहा
३.२६६.४कुमुदोत्पलपद्मानां गन्धमादाय वायुना
महीधरस्थः शीतेन सहसा प्रतिबोधितः
३.२६६.५प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः
सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि
३.२६६.६गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम्
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम्
३.२६६.७योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै
३.२६६.८यदर्थं निहतो वाली मया रघुकुलोद्वह
त्वया सह महाबाहो किष्किन्धोपवने तदा
३.२६६.९कृतघ्नं तमहं मन्ये वानरापसदं भुवि
यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण
३.२६६.१०असौ मन्ये न जानीते समयप्रतिपादनम्
कृतोपकारं मां नूनमवमन्याल्पया धिया
३.२६६.११यदि तावदनुद्युक्तः शेते कामसुखात्मकः
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया
३.२६६.१२अथापि घटतेऽस्माकमर्थे वानरपुंगवः
तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम्
३.२६६.१३इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः
किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः
३.२६६.१४सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः
तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया
३.२६६.१५तमब्रवीद्रामवचः सौमित्रिरकुतोभयः
स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः
३.२६६.१६सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम्
३.२६६.१७नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः
३.२६६.१८दिशः प्रस्थापिताः सर्वे विनीता हरयो मया
सर्वेषां च कृतः कालो मासेनागमनं पुनः
३.२६६.१९यैरियं सवना साद्रिः सपुरा सागराम्बरा
विचेतव्या मही वीर सग्रामनगराकरा
३.२६६.२०स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति
ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम्
३.२६६.२१इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता
त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत्
३.२६६.२२स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम्
अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्
३.२६६.२३इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः
३.२६६.२४आचख्युस्ते तु रामाय महीं सागरमेखलाम्
विचितां न तु वैदेह्या दर्शनं रावणस्य वा
३.२६६.२५गतास्तु दक्षिणामाशां ये वै वानरपुंगवाः
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत्
३.२६६.२६द्विमासोपरमे काले व्यतीते प्लवगास्ततः
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन्
३.२६६.२७रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत्
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः
३.२६६.२८वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया
३.२६६.२९तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम्
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम्
३.२६६.३०स तद्रामाय मेधावी शशंस प्लवगर्षभः
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम्
३.२६६.३१हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवंगमाः
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ
३.२६६.३२गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत
३.२६६.३३हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा
३.२६६.३४तानुवाचागतान्रामः प्रगृह्य सशरं धनुः
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता
३.२६६.३५अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः
निहत्य समरे शत्रूनाहृत्य जनकात्मजाम्
३.२६६.३६अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे
हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे
३.२६६.३७इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया
३.२६६.३८विचित्य दक्षिणामाशां सपर्वतवनाकराम्
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम्
३.२६६.३९प्रविशामो वयं तां तु बहुयोजनमायताम्
अन्धकारां सुविपिनां गहनां कीटसेविताम्
३.२६६.४०गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः
दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा
३.२६६.४१मयस्य किल दैत्यस्य तदासीद्वेश्म राघव
तत्र प्रभावती नाम तपोऽतप्यत तापसी
३.२६६.४२तया दत्तानि भोज्यानि पानानि विविधानि च
भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः
३.२६६.४३निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः
समीपे सह्यमलयौ दर्दुरं च महागिरिम्
३.२६६.४४ततो मलयमारुह्य पश्यन्तो वरुणालयम्
विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम्
३.२६६.४५अनेकशतविस्तीर्णं योजनानां महोदधिम्
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः
३.२६६.४६तत्रानशनसंकल्पं कृत्वासीना वयं तदा
ततः कथान्ते गृध्रस्य जटायोरभवत्कथा
३.२६६.४७ततः पर्वतशृङ्गाभं घोररूपं भयावहम्
पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम्
३.२६६.४८सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत्
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम्
३.२६६.४९संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः
अन्योन्यस्पर्धयारूढावावामादित्यसंसदम्
३.२६६.५०ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः
तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः
निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ
३.२६६.५१तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः
व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम्
३.२६६.५२स संपातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम्
विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम
३.२६६.५३कः स रामः कथं सीता जटायुश्च कथं हतः
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः
३.२६६.५४तस्याहं सर्वमेवैतं भवतो व्यसनागमम्
प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम्
३.२६६.५५सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट्
रावणो विदितो मह्यं लङ्का चास्य महापुरी
३.२६६.५६दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे
भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा
३.२६६.५७इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः
सागरप्लवने मन्त्रं मन्त्रयामः परंतप
३.२६६.५८नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने
ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम्
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्
३.२६६.५९तत्र सीता मया दृष्टा रावणान्तःपुरे सती
उपवासतपःशीला भर्तृदर्शनलालसा
जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी
३.२६६.६०निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः
उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम्
३.२६६.६१सीते रामस्य दूतोऽहं वानरो मारुतात्मजः
त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा
३.२६६.६२राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ
३.२६६.६३कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह
सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति
३.२६६.६४क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः
३.२६६.६५मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह
अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम्
३.२६६.६६अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः
३.२६६.६७गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम्
धारिता येन वैदेही कालमेतमनिन्दिता
३.२६६.६८प्रत्ययार्थं कथां चेमां कथयामास जानकी
क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात्
३.२६६.६९श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम्
संप्राप्त इति तं रामः प्रियवादिनमर्चयत्