३. वनपर्व
३.२६८.१मार्कण्डेय उवाच

३.२६८.२प्रभूतान्नोदके तस्मिन्बहुमूलफले वने
सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत

३.२६८.३रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम्
प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा

३.२६८.४अगाधतोयाः परिखा मीननक्रसमाकुलाः
बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः

३.२६८.५कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः
साशीविषघटायोधाः ससर्जरसपांसवः

३.२६८.६मुसलालातनाराचतोमरासिपरश्वधैः
अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः

३.२६८.७पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः

३.२६८.८अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः
विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः

३.२६८.९मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः
शुशुभे मेघमालाभिरादित्य इव संवृतः

३.२६८.१०स समासाद्य पौलस्त्यममात्यैरभिसंवृतम्
रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे

३.२६८.११आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः
प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च

३.२६८.१२अकृतात्मानमासाद्य राजानमनये रतम्
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च

३.२६८.१३त्वयैकेनापराद्धं मे सीतामाहरता बलात्
वधायानपराद्धानामन्येषां तद्भविष्यति

३.२६८.१४ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः
ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः

३.२६८.१५राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः
तदिदं समनुप्राप्तं फलं तस्यानयस्य ते

३.२६८.१६हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव
पश्य मे धनुषो वीर्यं मानुषस्य निशाचर

३.२६८.१७मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित्
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः

३.२६८.१८इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः

३.२६८.१९इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः

३.२६८.२०तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्
आदायैव खमुत्पत्य प्रासादतलमाविशत्

३.२६८.२१वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः
भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः

३.२६८.२२स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत्
लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः

३.२६८.२३कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः
विशश्राम स तेजस्वी राघवेणाभिनन्दितः

३.२६८.२४ततः सर्वाभिसारेण हरीणां वातरंहसाम्
भेदयामास लङ्कायाः प्राकारं रघुनन्दनः

३.२६८.२५विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः
दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम्

३.२६८.२६करभारुणगात्राणां हरीणां युद्धशालिनाम्
कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा

३.२६८.२७उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः

३.२६८.२८शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः
तरुणादित्यसदृशैः शरगौरैश्च वानरैः

३.२६८.२९प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम्
राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः

३.२६८.३०बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च
भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः

३.२६८.३१परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः
चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः

३.२६८.३२प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः

३.२६८.३३ततस्तु राजवचनाद्राक्षसाः कामरूपिणः
निर्ययुर्विकृताकाराः सहस्रशतसंघशः

३.२६८.३४शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः
प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः

३.२६८.३५स माषराशिसदृशैर्बभूव क्षणदाचरैः
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः

३.२६८.३६पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः
स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः

३.२६८.३७केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम्

३.२६८.३८निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः
हता निपतिता भूमौ न मुञ्चन्ति परस्परम्

३.२६८.३९रामस्तु शरजालानि ववर्ष जलदो यथा
तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान्

३.२६८.४०सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः
आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान्

३.२६८.४१ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया
कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः