३. वनपर्व
३.२७.१वैशंपायन उवाच

३.२७.२वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत

३.२७.३ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः

३.२७.४यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः
आसीदुच्चार्यमाणानां निस्वनो हृदयंगमः

३.२७.५ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम्
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत

३.२७.६अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम्
संध्यां कौन्तेयमासीनमृषिभिः परिवारितम्

३.२७.७पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम्
होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम्

३.२७.८चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह

३.२७.९आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया

३.२७.१०इदं तु वचनं पार्थ शृण्वेकाग्रमना मम
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव

३.२७.११ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह
उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ

३.२७.१२नाब्राह्मणस्तात चिरं बुभूषे;दिच्छन्निमं लोकममुं च जेतुम्
विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान्

३.२७.१३चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम्
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात्

३.२७.१४अनूनमासीदसुरस्य कामै;र्वैरोचनेः श्रीरपि चाक्षयासीत्
लब्ध्वा महीं ब्राह्मणसंप्रयोगा;त्तेष्वाचरन्दुष्टमतो व्यनश्यत्

३.२७.१५नाब्राह्मणं भूमिरियं सभूति;र्वर्णं द्वितीयं भजते चिराय
समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः

३.२७.१६कुञ्जरस्येव संग्रामेऽपरिगृह्याङ्कुशग्रहम्
ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम्

३.२७.१७ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम्
तौ यदा चरतः सार्धमथ लोकः प्रसीदति

३.२७.१८यथा हि सुमहानग्निः कक्षं दहति सानिलः
तथा दहति राजन्यो ब्राह्मणेन समं रिपून्

३.२७.१९ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत्
अलब्धस्य च लाभाय लब्धस्य च विवृद्धये

३.२७.२०अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय
यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय

३.२७.२१ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः

३.२७.२२ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन्
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन्

३.२७.२३द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात्

३.२७.२४कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः

३.२७.२५ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः

३.२७.२६एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः
अजातशत्रुमानर्चुः पुरंदरमिवर्षयः