३. वनपर्व
३.२८.१वैशंपायन उवाच

३.२८.२ततो वनगताः पार्थाः सायाह्ने सह कृष्णया
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः

३.२८.३प्रिया च दर्शनीया च पण्डिता च पतिव्रता
ततः कृष्णा धर्मराजमिदं वचनमब्रवीत्

३.२८.४न नूनं तस्य पापस्य दुःखमस्मासु किंचन
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः

३.२८.५यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्
भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचन
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः

३.२८.६आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा

३.२८.७सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः
ईदृशं दुःखमानीय मोदते पापपूरुषः

३.२८.८चतुर्णामेव पापानामश्रु वै नापतत्तदा
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि

३.२८.९दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च

३.२८.१०इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम्

३.२८.११इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम्

३.२८.१२दान्तं यच्च सभामध्ये आसनं रत्नभूषितम्
दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम्

३.२८.१३यदपश्यं सभायां त्वां राजभिः परिवारितम्
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे

३.२८.१४या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्
सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत

३.२८.१५या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम्

३.२८.१६यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम्

३.२८.१७यतीनामगृहाणां ते तथैव गृहमेधिनाम्
दीयते भोजनं राजन्नतीव गुणवत्प्रभो
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे

३.२८.१८यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः

३.२८.१९सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः

३.२८.२०भीमसेनमिमं चापि दुःखितं वनवासिनम्
ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते

३.२८.२१भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत
सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते

३.२८.२२सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

३.२८.२३कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः
त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः

३.२८.२४योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः

३.२८.२५यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे

३.२८.२६तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः
ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते

३.२८.२७दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्
न च ते वर्धते मन्युस्तेन मुह्यामि भारत

३.२८.२८यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

३.२८.२९यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतपः

३.२८.३०क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते

३.२८.३१श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते

३.२८.३२दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर
सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते

३.२८.३३द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः
मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते

३.२८.३४नूनं च तव नैवास्ति मन्युर्भरतसत्तम
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः

३.२८.३५न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्

३.२८.३६यो न दर्शयते तेजः क्षत्रियः काल आगते
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत

३.२८.३७तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः

३.२८.३८तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति