३. वनपर्व
३.२७१.१मार्कण्डेय उवाच

३.२७१.२ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः
अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम्

३.२७१.३तमभ्येत्याशु हरयः परिवार्य समन्ततः
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः
करजैरतुदंश्चान्ये विहाय भयमुत्तमम्

३.२७१.४बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः
नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन्

३.२७१.५स ताड्यमानः प्रहसन्भक्षयामास वानरान्
पनसं च गवाक्षं च वज्रबाहुं च वानरम्

३.२७१.६तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः
उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा

३.२७१.७तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान्
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः

३.२७१.८ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः
शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः

३.२७१.९स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि
बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः

३.२७१.१०ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात्

३.२७१.११ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा
अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः

३.२७१.१२सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम्
प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा

३.२७१.१३स तस्य देहावरणं भित्त्वा देहं च सायकः
जगाम दारयन्भूमिं रुधिरेण समुक्षितः

३.२७१.१४तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्

३.२७१.१५तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः

३.२७१.१६तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान्
क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन्

३.२७१.१७स बभूवातिकायश्च बहुपादशिरोभुजः
तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम्

३.२७१.१८स पपात महावीर्यो दिव्यास्त्राभिहतो रणे
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव

३.२७१.१९तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम्
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात्

३.२७१.२०तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ
अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम्

३.२७१.२१तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ
प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः

३.२७१.२२ततः सुतुमुलं युद्धमभवल्लोमहर्षणम्
दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः

३.२७१.२३महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत
तौ चापि वीरौ संक्रुद्धावुभौ तौ समवर्षताम्

३.२७१.२४मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः
सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः

३.२७१.२५अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः
अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः

३.२७१.२६नीलश्च महता ग्राव्णा दूषणावरजं हरिः
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः

३.२७१.२७ततः प्रावर्तत पुनः संग्रामः कटुकोदयः
रामरावणसैन्यानामन्योन्यमभिधावताम्

३.२७१.२८शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः
नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः