३. वनपर्व
३.२८४.१जनमेजय उवाच

३.२८४.२यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत्
इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम्

३.२८४.३यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्
तच्चाप्यपहरिष्यामि सव्यसाचाविहागते

३.२८४.४किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम्
आसीन्न च स धर्मात्मा कथयामास कस्यचित्

३.२८४.५वैशंपायन उवाच

३.२८४.६अहं ते राजशार्दूल कथयामि कथामिमाम्
पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम

३.२८४.७द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः

३.२८४.८अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः
कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत्

३.२८४.९महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते
शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम्

३.२८४.१०स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्
कृपया परयाविष्टः पुत्रस्नेहाच्च भारत

३.२८४.११ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान्
हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः

३.२८४.१२कर्ण मद्वचनं तात शृणु सत्यभृतां वर
ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम्

३.२८४.१३उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया
ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया

३.२८४.१४विदितं तेन शीलं ते सर्वस्य जगतस्तथा
यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे

३.२८४.१५त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित्

३.२८४.१६तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः
आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम्

३.२८४.१७तस्मै प्रयाचमानाय न देये कुण्डले त्वया
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम्

३.२८४.१८कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया
अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः

३.२८४.१९रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः

३.२८४.२०यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि

३.२८४.२१कवचेन च संयुक्तः कुण्डलाभ्यां च मानद
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम

३.२८४.२२अमृतादुत्थितं ह्येतदुभयं रत्नसंभवम्
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव

३.२८४.२३कर्ण उवाच

३.२८४.२४को मामेवं भवान्प्राह दर्शयन्सौहृदं परम्
कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक्

३.२८४.२५ब्राह्मण उवाच

३.२८४.२६अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये
कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते

३.२८४.२७कर्ण उवाच

३.२८४.२८श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः
प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम

३.२८४.२९प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम्
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः

३.२८४.३०व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो
यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम्

३.२८४.३१यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम्

३.२८४.३२दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम्
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता

३.२८४.३३मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम्
युक्तं हि यशसा युक्तं मरणं लोकसंमतम्

३.२८४.३४सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति

३.२८४.३५हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम्
तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति

३.२८४.३६वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन्
कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति

३.२८४.३७कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत्
अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः

३.२८४.३८अयं पुराणः श्लोको हि स्वयं गीतो विभावसो
धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै

३.२८४.३९पुरुषस्य परे लोके कीर्तिरेव परायणम्
इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी

३.२८४.४०सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम्
दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि

३.२८४.४१हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम्
विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम्

३.२८४.४२भीतानामभयं दत्त्वा संग्रामे जीवितार्थिनाम्
वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात्

३.२८४.४३प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम्

३.२८४.४४सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम्
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम्