३. वनपर्व
३.२८८.१कुन्त्युवाच

३.२८८.२ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम्

३.२८८.३एष चैव स्वभावो मे पूजयेयं द्विजानिति
तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम

३.२८८.४यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति

३.२८८.५लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान्
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम

३.२८८.६विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते

३.२८८.७यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः

३.२८८.८ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते
तारणाय समर्थाः स्युर्विपरीते वधाय च

३.२८८.९साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम्
न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात्

३.२८८.१०अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा

३.२८८.११नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति

३.२८८.१२राजोवाच

३.२८८.१३एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया
मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि

३.२८८.१४वैशंपायन उवाच

३.२८८.१५एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः
पृथां परिददौ तस्मै द्विजाय सुतवत्सलः

३.२८८.१६इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता
अपराध्येत यत्किंचिन्न तत्कार्यं हृदि त्वया

३.२८८.१७द्विजातयो महाभागा वृद्धबालतपस्विषु
भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा

३.२८८.१८सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम

३.२८८.१९तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः
हंसचन्द्रांशुसंकाशं गृहमस्य न्यवेदयत्

३.२८८.२०तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत्
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत्

३.२८८.२१निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने

३.२८८.२२तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती
विधिवत्परिचारार्हं देववत्पर्यतोषयत्