३. वनपर्व
३.२९३.१वैशंपायन उवाच

३.२९३.२एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ

३.२९३.३तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि
राधा नाम महाभागा न सा पुत्रमविन्दत
अपत्यार्थे परं यत्नमकरोच्च विशेषतः

३.२९३.४सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया
दत्तरक्षाप्रतिसरामन्वालभनशोभिताम्
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्

३.२९३.५सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी
ततो निवेदयामास सूतस्याधिरथस्य वै

३.२९३.६स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम्

३.२९३.७तरुणादित्यसंकाशं हेमवर्मधरं तथा
मृष्टकुण्डलयुक्तेन वदनेन विराजता

३.२९३.८स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः
अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत्

३.२९३.९इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि
दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः

३.२९३.१०अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते

३.२९३.११प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम्

३.२९३.१२पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः

३.२९३.१३वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्
नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः

३.२९३.१४एवं स सूतपुत्रत्वं जगामामितविक्रमः
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः

३.२९३.१५स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान्
चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत्

३.२९३.१६सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम्

३.२९३.१७तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि
सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान्

३.२९३.१८द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः

३.२९३.१९संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः
योद्धुमाशंसते नित्यं फल्गुनेन महात्मना

३.२९३.२०सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः

३.२९३.२१तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः

३.२९३.२२यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम्
स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः

३.२९३.२३तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः
नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु

३.२९३.२४तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत