३.२९६.१युधिष्ठिर उवाच
३.२९६.२नापदामस्ति मर्यादा न निमित्तं न कारणम्
धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः
३.२९६.३भीम उवाच
३.२९६.४प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा
न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम्
३.२९६.५अर्जुन उवाच
३.२९६.६वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः
अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम्
३.२९६.७सहदेव उवाच
३.२९६.८शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत
स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम्
३.२९६.९वैशंपायन उवाच
३.२९६.१०ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश
३.२९६.११पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान्
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः
३.२९६.१२नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम्
अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः
३.२९६.१३पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान्
सारसानां च निर्ह्रादमत्रोदकमसंशयम्
३.२९६.१४ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः
गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय
३.२९६.१५नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्
प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत
३.२९६.१६स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्
पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे
३.२९६.१७मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च
३.२९६.१८अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः
अपिबच्छीतलं तोयं पीत्वा च निपपात ह
३.२९६.१९चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः
अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम्
३.२९६.२०भ्राता चिरायते तात सहदेव तवाग्रजः
तं चैवानय सोदर्यं पानीयं च त्वमानय
३.२९६.२१सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत
ददर्श च हतं भूमौ भ्रातरं नकुलं तदा
३.२९६.२२भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः
अभिदुद्राव पानीयं ततो वागभ्यभाषत
३.२९६.२३मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च
३.२९६.२४अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः
अपिबच्छीतलं तोयं पीत्वा च निपपात ह
३.२९६.२५अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः
भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन
तौ चैवानय भद्रं ते पानीयं च त्वमानय
३.२९६.२६एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः
आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत
३.२९६.२७यतः पुरुषशार्दूलौ पानीयहरणे गतौ
तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः
३.२९६.२८प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः
धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम्
३.२९६.२९नापश्यत्तत्र किंचित्स भूतं तस्मिन्महावने
सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत
३.२९६.३०अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे
किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया
३.२९६.३१कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे
ततः पास्यसि पानीयं हरिष्यसि च भारत
३.२९६.३२वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय
यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि
३.२९६.३३एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः
ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन्
३.२९६.३४कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ
अनेकैरिषुसंघातैरन्तरिक्षं ववर्ष ह
३.२९६.३५यक्ष उवाच
३.२९६.३६किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब
अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि
३.२९६.३७वैशंपायन उवाच
३.२९६.३८स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह
३.२९६.३९अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च बीभत्सुश्चापराजितः
३.२९६.४०चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत
तांश्चैवानय भद्रं ते पानीयं च त्वमानय
३.२९६.४१भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत
यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः
३.२९६.४२तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः
अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम्
स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे
३.२९६.४३पास्यामि तावत्पानीयमिति पार्थो वृकोदरः
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः
३.२९६.४४यक्ष उवाच
३.२९६.४५मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च
३.२९६.४६वैशंपायन उवाच
३.२९६.४७एवमुक्तस्ततो भीमो यक्षेणामिततेजसा
अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह
३.२९६.४८ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः
समुत्थाय महाबाहुर्दह्यमानेन चेतसा
३.२९६.४९अपेतजननिर्घोषं प्रविवेश महावनम्
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्
३.२९६.५०नीलभास्वरवर्णैश्च पादपैरुपशोभितम्
भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः
३.२९६.५१स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम्
ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा
३.२९६.५२उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः
केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम्
श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः