३. वनपर्व
३.३४.१वैशंपायन उवाच

३.३४.२याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्

३.३४.३राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने

३.३४.४नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः

३.३४.५गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम्

३.३४.६धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे

३.३४.७भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना

३.३४.८कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते

३.३४.९भवतः प्रियमित्येवं महद्व्यसनमीदृशम्
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत

३.३४.१०कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ

३.३४.११यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्

३.३४.१२अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः
अवीराचरितां राजन्न बलस्थैर्निषेविताम्

३.३४.१३यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः
न चाहमभिनन्दामि न च माद्रीसुतावुभौ

३.३४.१४भवान्धर्मो धर्म इति सततं व्रतकर्शितः
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम्

३.३४.१५दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम्
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्

३.३४.१६स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम्
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे

३.३४.१७अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः

३.३४.१८तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम्
सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि

३.३४.१९अथ वा वयमेवैतान्निहत्य भरतर्षभ
आददीमहि गां सर्वां तथापि श्रेय एव नः

३.३४.२०सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्

३.३४.२१आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा

३.३४.२२कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत्

३.३४.२३सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा

३.३४.२४यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव

३.३४.२५यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः

३.३४.२६अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः

३.३४.२७सततं यश्च कामार्थी नेतरावनुतिष्ठति
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते

३.३४.२८तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्
कामतो रममाणस्य मीनस्येवाम्भसः क्षये

३.३४.२९तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा

३.३४.३०सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः
इतरेतरयोनी तौ विद्धि मेघोदधी यथा

३.३४.३१द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते
स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते

३.३४.३२अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति
अर्थमृच्छति कामार्थी न कामादन्यमृच्छती

३.३४.३३न हि कामेन कामोऽन्यः साध्यते फलमेव तत्
उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः

३.३४.३४इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा
एतद्रूपमधर्मस्य भूतेषु च विहिंसताम्

३.३४.३५कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः

३.३४.३६व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्

३.३४.३७तस्य नाशं विनाशं वा जरया मरणेन वा
अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते

३.३४.३८इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च
विषये वर्तमानानां या प्रीतिरुपजायते
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्

३.३४.३९एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च
न धर्मपर एव स्यान्न चार्थपरमो नरः
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा

३.३४.४०धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत्
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः

३.३४.४१कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत्
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः

३.३४.४२धर्मं चार्थं च कामं च यथावद्वदतां वर
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः

३.३४.४३मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्
प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन

३.३४.४४तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः

३.३४.४५विदितश्चैव ते धर्मः सततं चरितश्च ते
जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम्

३.३४.४६दानं यज्ञः सतां पूजा वेदधारणमार्जवम्
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च

३.३४.४७एष नार्थविहीनेन शक्यो राजन्निषेवितुम्
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे

३.३४.४८धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम्

३.३४.४९न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित्
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना

३.३४.५०प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ

३.३४.५१भैक्षचर्या न विहिता न च विट्शूद्रजीविका
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम्

३.३४.५२उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि

३.३४.५३अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः

३.३४.५४प्रजापालनसंभूतं फलं तव न गर्हितम्
एष ते विहितो राजन्धात्रा धर्मः सनातनः

३.३४.५५तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते

३.३४.५६स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः
वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत्

३.३४.५७न हि केवलधर्मात्मा पृथिवीं जातु कश्चन
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम्

३.३४.५८जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम्
निकृत्या लभते राज्यमाहारमिव शल्यकः

३.३४.५९भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ

३.३४.६०एवं बलवतः सर्वमिति बुद्ध्वा महीपते
जहि शत्रून्महाबाहो परां निकृतिमास्थितः

३.३४.६१न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः

३.३४.६२सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि
न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव

३.३४.६३सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी

३.३४.६४अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः

३.३४.६५अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः
न तत्र विपणः कार्यः खरकण्डूयितं हि तत्

३.३४.६६एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः

३.३४.६७अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डिताः
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे

३.३४.६८सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः

३.३४.६९सर्वथा संहतैरेव दुर्बलैर्बलवानपि
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव

३.३४.७०यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः
अत्ति चैव तथैव त्वं सवितुः सदृशो भव

३.३४.७१एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम्
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः

३.३४.७२अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम्

३.३४.७३भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च
कथायुक्ताः परिषदः पृथग्राजन्समागताः

३.३४.७४इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते
समेताः कथयन्तीह मुदिताः सत्यसंधताम्

३.३४.७५यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात्

३.३४.७६यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन्
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः

३.३४.७७ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः

३.३४.७८पौरजानपदाः सर्वे प्रायशः कुरुनन्दन
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर

३.३४.७९श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा

३.३४.८०इति निर्वचनं लोके चिरं चरति भारत
अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते

३.३४.८१स भवान्रथमास्थाय सर्वोपकरणान्वितम्
त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम्

३.३४.८२वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा

३.३४.८३अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल

३.३४.८४न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्

३.३४.८५न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे

३.३४.८६सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च
कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे