३. वनपर्व
३.३५.१युधिष्ठिर उवाच

३.३५.२असंशयं भारत सत्यमेत;द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि
न त्वा विगर्हे प्रतिकूलमेत;न्ममानयाद्धि व्यसनं व आगात्

३.३५.३अहं ह्यक्षानन्वपद्यं जिहीर्ष;न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात्
तन्मा शठः कितवः प्रत्यदेवी;त्सुयोधनार्थं सुबलस्य पुत्रः

३.३५.४महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान्
अमायिनं मायया प्रत्यदेवी;त्ततोऽपश्यं वृजिनं भीमसेन

३.३५.५अक्षान्हि दृष्ट्वा शकुनेर्यथाव;त्कामानुलोमानयुजो युजश्च
शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम्

३.३५.६यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः
न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत्

३.३५.७स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन्
दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः

३.३५.८त्वं चापि तद्वेत्थ धनंजयश्च; पुनर्द्यूतायागतानां सभां नः
यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम्

३.३५.९वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो
अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः

३.३५.१०त्वां चेच्छ्रुत्वा तात तथा चरन्त;मवभोत्स्यन्ते भारतानां चराः स्म
अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ

३.३५.११चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान्
ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः

३.३५.१२वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान्
वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति

३.३५.१३तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे
इत्थं च देशाननुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः

३.३५.१४सुयोधनश्चापि न शान्तिमिच्छ;न्भूयः स मन्योर्वशमन्वगच्छत्
उद्योजयामास कुरूंश्च सर्वा;न्ये चास्य केचिद्वशमन्वगच्छन्

३.३५.१५तं संधिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः
आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात्

३.३५.१६तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः
बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत्

३.३५.१७प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः
प्राप्तं तु कालं त्वभिपद्य पश्चा;त्किं मामिदानीमतिवेलमात्थ

३.३५.१८भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा
यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम

३.३५.१९न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये
कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः

३.३५.२०यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा
महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके

३.३५.२१श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते
मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम्

३.३५.२२मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च
राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति