३. वनपर्व
३.३६.१भीमसेन उवाच

३.३६.२संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा
अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा

३.३६.३प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः
फेनधर्मा महाराज फलधर्मा तथैव च

३.३६.४निमेषादपि कौन्तेय यस्यायुरपचीयते
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्

३.३६.५यो नूनममितायुः स्यादथ वापि प्रमाणवित्
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान्

३.३६.६प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश
आयुषोऽपचयं कृत्वा मरणायोपनेष्यति

३.३६.७शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे

३.३६.८यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः
अयातयित्वा वैराणि सोऽवसीदति गौरिव

३.३६.९यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान्
अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः

३.३६.१०हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव
हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु

३.३६.११हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः

३.३६.१२अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः
येनाहमभिसंतप्तो न नक्तं न दिवा शये

३.३६.१३अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे
आस्ते परमसंतप्तो नूनं सिंह इवाशये

३.३६.१४योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति

३.३६.१५नकुलः सहदेवश्च वृद्धा माता च वीरसूः
तवैव प्रियमिच्छन्त आसते जडमूकवत्

३.३६.१६सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः
अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः

३.३६.१७प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन
सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः

३.३६.१८नेतः पापीयसी काचिदापद्राजन्भविष्यति
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते

३.३६.१९शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति

३.३६.२०घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः

३.३६.२१अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्
क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान्

३.३६.२२कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च

३.३६.२३तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम्
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि

३.३६.२४अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च
दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया

३.३६.२५बृहच्छाल इवानूपे शाखापुष्पपलाशवान्
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति

३.३६.२६इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः

३.३६.२७पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति

३.३६.२८मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः
अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम्

३.३६.२९तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः
राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः

३.३६.३०न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः

३.३६.३१तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान्
आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम्

३.३६.३२अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश
परिमाणेन तान्पश्य तावतः परिवत्सरान्

३.३६.३३अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः
पूतिकानिव सोमस्य तथेदं क्रियतामिति

३.३६.३४अथ वानडुहे राजन्साधवे साधुवाहिने
सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते

३.३६.३५तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया
क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात्