३. वनपर्व
३.३८.१वैशंपायन उवाच

३.३८.२कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः
संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत्

३.३८.३विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम्
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन्

३.३८.४स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः
धनंजयं धर्मराजो रहसीदमुवाच ह

३.३८.५भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः

३.३८.६ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम्
सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः

३.३८.७ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते

३.३८.८सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः

३.३८.९अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा
त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः
तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम

३.३८.१०कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया
तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः

३.३८.११देवतानां यथाकालं प्रसादं प्रतिपालय
तपसा योजयात्मानमुग्रेण भरतर्षभ

३.३८.१२धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम्
इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय

३.३८.१३वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम्
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे

३.३८.१४शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम्

३.३८.१५एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः
दीक्षितं विधिना तेन यतवाक्कायमानसम्
अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः

३.३८.१६निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम्
धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी

३.३८.१७कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्
हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः

३.३८.१८प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च

३.३८.१९तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम्
अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च
क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि

३.३८.२०तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम्
मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत्

३.३८.२१यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनंजय
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि

३.३८.२२मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात्
ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका

३.३८.२३नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे
रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः

३.३८.२४नैव नः पार्थ भोगेषु न धने नोत जीविते
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि

३.३८.२५त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते
जीवितं मरणं चैव राज्यमैश्वर्यमेव च
आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव

३.३८.२६नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम्
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः

३.३८.२७ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः

३.३८.२८तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः

३.३८.२९सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः
मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः

३.३८.३०हिमवन्तमतिक्रम्य गन्धमादनमेव च
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः

३.३८.३१इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनंजयः
अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा

३.३८.३२ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम्
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम्

३.३८.३३सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः
कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी
निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः

३.३८.३४नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम्

३.३८.३५नेहास्ति धनुषा कार्यं न संग्रामेण कर्हिचित्
निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम्

३.३८.३६इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम्
तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत्
न चैनं चालयामास धैर्यात्सुदृढनिश्चयम्

३.३८.३७तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन

३.३८.३८एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः

३.३८.३९ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम्

३.३८.४०प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय
कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम्

३.३८.४१एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः
न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम्

३.३८.४२न च सर्वामरैश्वर्यं कामये त्रिदशाधिप
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः

३.३८.४३एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः

३.३८.४४यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः

३.३८.४५क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि

३.३८.४६इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः
अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः